Table of Contents

<<7-1-86 —- 7-1-88>>

7-1-87 थो न्थः

प्रथमावृत्तिः

TBD.

काशिका

पथिमथोः थकारस्य स्थाने न्थः इत्ययम् आदेशो भवति सर्वनामस्थाने परतः। पन्थाः, पन्थानौ, पन्थानः। मन्थाः, मन्थानौ, मन्थानः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

297 पथिमथोस्थस्य न्थादेशः सर्वनामस्थाने. पन्थाः. पन्थानौ. पन्थानः..

बालमनोरमा

थो न्थः। थः न्थ इति च्छेदः। थ इति षष्ठी। आदेशेऽकार उच्चारणार्थः। पथिमथिग्रहणमनुवर्तते। ऋभुक्षिग्रहणं निवृत्तं, तत्र थकाराऽभावात्। `इतोऽत्सर्वनामस्थाने' इत्यतः सर्वनामस्थानग्रहणमनुवर्तते। तदाह– पथिमथोरित्यादिना। पन्था इति। नकारस्य आत्त्वे इकारस्य अत्त्वे थकारस्य न्थादेशे पन्थ आ स् इति स्थिते सवर्णदीर्घे रुत्वविसर्गाविति भावः। पन्थानाविति। पथिन् औ इति स्थिते सावित्युक्तेर्नात्त्वम् `इतोऽत्' इति इकारस्याऽत्त्वे थकारस्य न्थादेशे `सर्वनामस्थाने चे'ति दीर्घे रूपमिति भावः।

तत्त्वबोधिनी

328 थो न्थः। स्थान्यदेशौ द्वावप्यनच्कौ। `थेर्न्थः'इत्येव सिद्धे `इतोऽत्सर्वनामस्थाने'इत्येतद्दभुक्षिन्नर्थं। त्रयाणाननुवृत्तापि ऋभुक्षस्थो न संभवतीत्याशयेनाह—

Satishji's सूत्र-सूचिः

वृत्ति: पथिमथोस् थस्य न्थादेशः स्यात्, सर्वनामस्थाने परे। The थकारः of “पथिन्” and “मथिन्” gets “न्थ्” as replacement when they are followed by a सर्वनामस्थानम् affix.

उदाहरणम् continued – पथ आ + स् = पन्थ आ + स् 7-1-87 = पन्थाः 6-1-101, 8-2-66, 8-3-15