Table of Contents

<<7-1-85 —- 7-1-87>>

7-1-86 इतो ऽत् सर्वनामस्थाने

प्रथमावृत्तिः

TBD.

काशिका

पथ्यादीनाम् इकारस्य स्थाने अकारादेशो भवति सर्वनामस्थाने परतः। पन्थाः, पथानौ, पन्थानः। पन्थानम्, पन्थानौ। मन्थाः, मन्थानौ, मन्थानः। मन्थानम्, मन्थानौ। ऋभुक्षाः, ऋक्भुक्षाणौ, ऋभुक्षाणः। ऋभुक्षाणम्, ऋभुक्षाणौ। आतिति वर्तामाने पुनरद्वचनं षपूर्वार्थम्। ऋभुक्षणम् इत्यत्र वा षपूर्वस्य निगमे 6-4-9 इति दीर्घविकल्पः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

296 पथ्यादेरिकारस्याकारः स्यात्सर्वनामस्थाने परे..

बालमनोरमा

इतोऽत्। पथिमथ्यृभुक्षाम् इत्यनुवर्तते। `इत' इति तपरकरणं स्पाष्टार्थं , पथ्यादिषु त्रिषु दीर्घप्लुतयोरसंभवात्। भाव्यमानत्वादेव सवर्णाऽग्रहकत्वे सिद्धे अदिति तपरकरणमपि स्पाष्टार्थमेव। तदाह–पथ्यादेरित्यादिना। पथ आ स् इति स्थिते।

तत्त्वबोधिनी

327 इतोऽत्सर्वनाम। `आ'दिति वर्तमाने पुनरद्वचनं किमर्थं, कृतेऽप्यद्वचने `पन्था'इत्यत्र सवर्णदीर्घेण भाब्यमन्यत्र तूपधाया दीर्घेणेति चेन्मैवम्, `ऋभुक्षण'मित्यत्र `वा षपूर्वस्य निगमे' इति दीर्घविकल्पे सति पक्षे ह्यस्वाश्रवणार्थमद्ववचनस्यावश्यकत्वात्।

Satishji's सूत्र-सूचिः

वृत्ति: पथ्यादेरिकारस्य अकारः स्यात् सर्वनामस्थाने परे। The इकारः of “पथिन्”, “मथिन्” and “ऋभुक्षिन्” gets अकारः as replacement when they are followed by a सर्वनामस्थानम् affix.

उदाहरणम् continued – पथि आ + स् = पथ आ + स् 7-1-86 – Example continued under next rule.