Table of Contents

<<7-1-87 —- 7-1-89>>

7-1-88 भस्य टेर् लोपः

प्रथमावृत्तिः

TBD.

काशिका

पथ्यादीनां भसंज्ञकानां टेः लोपो भवति। पथः। पथा। पथे। मथः। मथा। मथे। ऋभुक्षः। ऋभुक्षा। ऋभुक्षे। सर्वनामस्थाने इत्यनुवर्तमानम् अपि विरोधादिह न सम्बध्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

298 भस्य पथ्यादेष्टेर्लोपः. पथः. पथा. पथिभ्याम्.. एवं मथिन्, ऋभुक्षिन्..

बालमनोरमा

एवं पन्थानः। पन्थानम् पन्थानौ। शसादावचि विशेषमाह–भस्य टेर्लोपः। पथ्यादेरिति। पथिमत्यृभुक्षामित्यनुवर्तत इति भावः। पथः पथेति। पथिन् अस् पथिन् आ इति स्थिते इनो लोपे रूपद्वयमिति भावः। पथिभ्यामिति। नलोपे रूपम्। इत्यादीति। पथिभिः। पथे। पथिभ्यः। पथः पथोः पथाम्। पथि, पथोः पथिषु। एवं मन्था ऋभुक्षा इति। मन्थदण्डवाची मथिन्शब्दः। तस्य आत्त्वम्, अत्त्वं , न्थादेशः, टिलोपश्च। मन्थाः मन्थानौ मन्थानः। मन्थानम् मन्थानौ मथः। मथा मथिभ्याम्। मथे। मथः मथोः मेथाम्। मथि। मथिषु। ऋभुक्षिन्शब्दस्तु इन्द्रवाची। तत्र `थो न्थः' इतिवर्जमात्त्वादि भवति। षात्परत्वाण्णत्वं च। ऋभुक्षाः ऋभुक्षाणौ इत्यादि। यत्तु अत्र पन्थानमात्मन इच्छति पथीयति। `सुप आत्मनः क्यच्', `नः क्ये' इति पदत्वान्नलोपः `आकृत्सार्वधातुकयोः' इति दीर्घः। `सनाद्यन्ताः' इति धातुत्वम्। ततः क्विप्। अल्लोपयलोपौ। एकदेशविकृतस्यानन्यत्वात् `पथिमथी'त्यात्त्वं, `थो न्थः'। ततः संयोगपूर्वत्वान्न यण्। किन्त्वियङेव। पन्थियौ। `भस्य टेक्लोपः' पथ इत्यादि प्रौढमनोरमातत्त्वबोधिन्यादावुक्तम्। तदेतदनुनासिकविधौ सति प्रतिपत्तिलाघवायाऽनुनासिकस्यैव उच्चारणे कार्ये तदनुच्चारणाच्छुद्धस्यैव विधानमिति भाष्यविरोधादुपेक्ष्यम्। पथीयते क्विपि हि ईकारस्य शुद्धाकारार्थं अनुनासिकानुच्चारणस्यावश्यकत्वे तदसङ्गति स्पष्टैव। तस्मात्पथीयतेः क्वपोऽनभिधानमेवोचितमिति शब्देन्दुशेखरे स्पष्टम्।प्रसङ्गादाह–स्त्रियामिति। सु=शोभनः पन्था अस्या इति बहुव्रीहिः। `ऋन्नेभ्यः' इति ङीप्। `भस्य टेर्लोपः' इति इनो लोपः। सुपथीति रूपम्। ऋक्पूः'इत्यप्तु न, `न पूजनादिति निषेधात्। न चैवमपि `न पूजनात्' इति निषेधस्य षचः प्रागेव प्रवृत्तेर्वक्ष्यमाणत्वात् `इनः स्त्रिया'मिति कब्दुर्वार एवेति वाच्यम्, `युवोरनाकौ' इत्यत्र सुपथीति भाष्यप्रयोगेण तस्या अनित्यत्वज्ञापनात्। नच लिङ्गविशिष्टपरिभाषया `पथिमथी'त्यात्त्वं थो न्थश्च कुतो नेति वाच्यं, विभक्तौ लिङ्गविशिष्टाऽग्रहणात्। सुमथी इति। सु=शोभनो मन्था यस्या इति विग्रहः। ङीबादि पूर्ववत्। अनृभुक्षी सेनेति। अविद्यमानः ऋभुक्षा यस्या इति विग्रहः। `नञोऽस्त्यर्थाना'मिति समासः। ऋभुक्षाः=स्वामी। अथ सु=शोभनः पन्था अस्य वनस्येति बहुव्रीहौ सुपथिन्शब्दान्नपुंसकात् `स्वमोर्नपुंसकात्' इति सोर्लुकि प्रत्ययलक्षणमाश्रित्य सुप्परत्वसत्त्वात् `पथिमथी'त्यात्त्वमाशङ्क्याह–आत्त्वं नपुंसके इति। सम्बुद्धाविति। यद्यपि भाष्ये नपुंसकानामित्येव पठितं तथापि हे चर्मन् हे चर्मेति भाष्ये सम्बुद्धावेव उदाह्मतत्वात्तन्मात्रविषयत्वमस्येति भावः। सम्बुद्धेर्लुका लुप्त्वात्संबुद्धिपरत्वाऽभावात् `न ङिसम्बुद्ध्योः' इति निषेधाऽप्रवृत्तेर्नित्यं नलोपप्राप्तौ विकल्पार्थोऽयमारम्भः। ननु नलोपपक्षे `ह्यस्वस्य गुणः' इति सम्बुद्धौ परतो गुणे कर्तव्ये न `न लुमते'ति निषेधस्याऽनित्यत्वाद्धे वारे हे वारि इतिवद्गुणविकल्पः स्यादित्यत आह–नलोपः सुबिति। द्विवचने इति। सुपथिन्शब्दादौङः शीभावे सति असर्वनामस्थानत्वेन भत्वात् `भस्य टेर्लोपः' इति इनो लोपे सुपथीति रूपमित्यर्थः। शाविति। सुपथिन्शब्दाज्जश्शसोः शिभावे सति तस्य सर्वनामस्थानत्वात् `इतोऽत्' इत्यत्त्वे, `थो न्थः' इति थस्य न्थादेशे नान्तत्वाद्दीर्घे सुपन्थानि इति रूपमित्यर्थः।

तत्त्वबोधिनी

329 पथिमथोरिति। प्रसङ्गादाह–स्त्रियामिति। नान्तलक्षण इति। `न पूजना'दिति निषेधात् `ऋक्पूरब्धू'रित्यप्रत्ययो नेति भावः। सुपथीति। `इनः स्त्रिया'–मिति कप्तु न कृतः, समासान्तविधेरमनित्यत्वात्। `युवोरनाका'विति सूत्रे `सुपथी'ति भाष्याच्च। `न पूजनां'दिति निषेधस्य तु नायं विषयः'`षचः प्राचीनेष्वेव सः'इति वक्ष्यमाणत्वात्। `पथिमथी त्यात्वं थो न्थश्च लिङ्गविशिष्टपरिभाषया प्राप्तं विभक्तौ लिङ्गविशिष्टाऽग्रहणान्न भवति। अत्रेदं बोध्यम्–पन्थानमात्मन इच्छति पथीयति। ततः क्विप्। अल्लोपयलोपौ। एकदेशविकृतस्यानन्यत्वात् `पथिमथी'त्यात्वम्। `थोः न्थः'। पन्थाः। `इतोऽत्सर्वनामस्थाने'इत्यत्वं न भवति। `इत'इति तपरकरणात्। `एरनेकाचः'इति यणं बाधित्वा परत्वान्नित्यत्वाच्च–`थो न्थः'। संयोगपूर्वकत्वान्न यण्। पन्थियौ। पन्थियः. पन्थियम्। पन्थियौ। `भस्य टेक्लोपः'। पथः। पथा। पथीभ्यम्। पथीभिरित्यादि। एवं मथीयतेः क्विपि तु–मन्थाःष मन्थियौ। मन्थियः। ऋभुक्षाः। ऋभुक्षियौ। ऋभुक्षियः। इत्यादि। एतेन `इतोऽत्सर्वनामस्थाने'इत्यत्रस्थानिन्यदेशे च तपरकरणं मुखसुखार्थमिति हरदत्तग्रन्थः प्रयुक्तः। आदेशे तपरकरणस्यानावश्यकत्वेऽपि स्थान#इनि तु `पन्थियौ'इत्यादिसिद्धये तस्यावश्यकत्वात्। ननु नलोपस्याऽसिद्धात्वात्। `पथिमथ्यृभुक्षाम्—'इति नस्यात्वे पन्थ्याः, मन्थ्याः, ऋभुक्ष्या इथ्येव भवितव्यम्, न तु `पन्था'इत्यादिति चेत्। अत्राहुः– नलोपस्यान्तर्वर्ती सुब्विमित्तम्। आत्वस्य तु बहिर्वत्र्ती सुप्। प्रत्यासत्त्या हि अत्र एक एव सुब्निमित्तभूतस्तत्रैव `नलोपः सुप्स्वरे'ति नलोपस्यासिद्धत्वं नान्यचत्रेति नात्र नकारस्यात्वं, किं त्वीकारस्येति।

Satishji's सूत्र-सूचिः

211) भस्य टेर्लोपः 7-1-88

वृत्ति: भसञ्ज्ञकस्य पथ्‍यादेष्‍टेर्लोपः स्यात्। The टि-भागः of “पथिन्”, “मथिन्” and “ऋभुक्षिन्”, when they have the भ-सञ्ज्ञा, takes लोपः।

गीतासु उदाहरणम् – श्लोकः bg6-38

पथिन् + ङि = पथिन् + इ 1-3-8, पथिन् gets the भ-सञ्ज्ञा by 1-4-18 = पथ् + इ 7-1-88, 1-1-64 = पथि