Table of Contents

<<7-1-55 —- 7-1-57>>

7-1-56 श्रीग्रामण्योश् छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

श्री ग्रामणी इत्येतयोः छन्दसि विषये आमो नुडागमो भवति। श्रीणामुदारो धरुणो रयीणाम्। अपि तत्र सूतग्रामणीनाम्। श्रीशब्दस्य वामि 1-4-5 इति विकल्पेन नदीसंज्ञा, तत्र नित्यार्थं वचनम्। सूतग्रामणीनाम् इति यदा सूताश्च ते ग्रामण्यश्च सूतग्रामण्यो भवन्ति तदर्थम् इदं वचनम्। यदा तु सूतश्च ग्रामणीश्च सूतग्रामणि, सूतग्रामणि च सूतग्रामणि च सूतग्रामणि च इति सूतग्रामणीनाम् इति, तदा ह्रस्वातित्येव सिद्धम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.