Table of Contents

<<7-1-14 —- 7-1-16>>

7-1-15 ङसिङ्योः समात्स्मिनौ

प्रथमावृत्तिः

TBD.

काशिका

ङसि ङि इत्येतयोरकारान्तात् सर्वनाम्नः उत्तरयोः स्मात् स्मिनित्येतावादेशौ भवतः। ङसि इत्येतस्य स्मात्। सर्वस्मात्। विश्वस्मात्। यस्मात्। तस्मात्। कर्मात्। ङि इत्येतस्य स्मिन्। सर्वस्मिन्। विश्वस्मिन्। यस्मिन्। तस्मिन्। अन्यस्मिन्। अतः इत्येव, भवतः। भवति। सर्वनाम्नः इत्येव, वृक्षात्। वृक्षे।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

154 अतः सर्वनाम्न एतयोरेतौ स्तः. सर्वस्मात्..

बालमनोरमा

214 सर्वशब्दात्पञ्चम्येकवचने टाङसिङसामिति प्राप्ते-ङसिङ्योः। ङसिश्च ङिश्चेति द्वन्द्वः। `अतो भिस' इत्यस्मादत इति, `सर्वनाम्नः स्मै' इत्यतः `सर्वनाम्न' इति चानुवर्तते, तदाह–अतः सर्वेति। एतयोरिति। ङसिङ्योरित्यर्थः। एताविति। स्मात्स्मिनावित्यर्थः। स्मादादेशस्य स्थानिवद्भावेन विभक्तित्वान्न विभक्ताविति तकारस्य नेत्त्वमिति मत्वाह–सर्वस्मादिति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

76) ङसिङ्यो: स्मात्स्मिनौ 7-1-15

वृत्ति: अत: सर्वनाम्नो ङसिङ्यो: स्मात्स्मिनौ स्त: । Following a pronoun ending in “अ”, the affixes “ङसिँ” (पञ्चमी-एकवचनम्) and “ङि” (सप्तमी-एकवचनम्) are replaced respectively by “स्मात्” and “स्मिन्” ।

गीतासु उदाहरणम् – श्लोकः bg2-37

तद् + ङसि = त अ + ङसि 7-2-102 = त + ङसि 6-1-97 = तस्मात्

श्लोकः bg6-22

यद् + ङि = य अ + ङि 7-2-102 = य + ङि 6-1-97 = यस्मिन्