TBD.
पूर्वादिभ्यो नवभ्यः सर्वनाम्नः उत्तरयोः ङसिङ्योः स्मात् स्मिनित्येतावादेशौ वा भवतः। पूर्वस्मात्, पूर्वात्। पूर्वस्मिन्, पूर्वे। परस्मात्, परात्। परस्मिन्, परे। अवरस्मात्, अवरात्। अवरस्मिन्, अवरे। दक्षिणस्मात्, दक्षिणात्। दक्षिणस्मिन्, दक्षिणे। उत्तरस्मात्, उत्तरात्। उत्तरस्मिन्, उत्तरे। अपरस्मात्, अपरात्। अपरस्मिन्, अपरे। अधरस्मात्, अधरात्। अधरस्मिन्, अधरे। स्वस्मात्, स्वात्। स्वस्मिन्, स्वे। अन्तरस्मात्, अन्तरात्। अन्तरस्मिन्, अन्तरे। नवभ्यः इति किम्? त्यस्मात्। त्यस्मिन्।
TBD.
159 एभ्यो ङसिङ्योः स्मात्स्मिनौ वा स्तः. पूर्वस्मात्, पूर्वात्. पूर्वस्मिन्, पूर्वे. एवं परादीनाम्. शेषं सर्ववत्..
219 पूर्वादिभ्यो। `ङसिङ्योः स्मात्स्मिना'वित्यनुवर्तते इत्याह–एभ्य इति। पूर्वपरेत्यादित्रिसूत्रीनिर्दिष्टाः पूर्वादय इति विवक्षिताः। त्यदादयो हलन्ताधिकारे व्याख्यास्यन्ते। एकशब्दः सङ्ख्यायामिति। अर्थान्तरे तु द्विवचने बहुवचने अपि स्तः। `एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा। साधारणे समानेऽल्पे सङ्क्यायां च प्रयुज्यते। इति कोशः। स्यादेतत्–`त्वत्कपितृकः'`मत्कपितृकः' इति बहुव्रीहिः। त्वकं पिता यस्य, अहकं पिता यस्येति लोकिकविग्रहवाक्यम्। लौकिकत्वं– प्रयोगार्हत्वम्। युष्मदस्मदोरज्ञाताद्यर्थे `अव्ययसर्वनाम्ना'मित्यकचि–युष्मकद् स् इति स्थिते, `ङे प्रथमयोः' इत्यमि,त्वाहौ सौ' इति त्वादेशेऽहादेशे च सति, `शेषे लोपः' इति लोपे, `अतो गुणे' अमि पूर्वे च त्वकम्, अहकमिति रूपम्। युष्मद् स्, पितृ स्, अस्मद्स्, पितृ स्–इत्यलौकिकं विग्रहवाक्यम्। प्रयोगानर्हत्वम्– अलौकिकत्वमिति स्थितिः। तत्र त्वत्कपितृको मत्कपितृक इति बहुव्रीहिदशायां कप्रत्ययो न संभवति, युष्मदस्मदोः सर्वनामत्वेनाऽकच्प्रसङ्गात्।
184 एकशब्दस्याष्टावर्था उक्तास्तत्र विशेषमाह–सङ्ख्यायामिति। अन्येषु तु सप्तस्वर्थेषु वचनान्तरमपि स्यादेव, `एके' `एकोषा'मिति यथेति भावः।
TBD.