Table of Contents

<<7-1-13 —- 7-1-15>>

7-1-14 सर्वनाम्नः स्मै

प्रथमावृत्तिः

TBD.

काशिका

अकारान्तात् सर्वनाम्नः उत्तरस्य ङेः स्मै इत्ययम् आदेशो भवति। सर्वस्मै। विश्वस्मै। यस्मै। तस्मै। कस्मै। अतः इत्येव, भवते। अथो ऽत्र अस्मै इत्यन्वादेशे ऽशादेशे एकादेशः प्राप्नोति? तत्र अन्तरङ्गत्वादेकादेशात् पूर्वं स्मैभावः क्रियते पश्चादेकादेशः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

153 अतः सर्वनाम्नो डेः स्मै. सर्वस्मै..

बालमनोरमा

213 सर्वशब्दाच्चतुर्थ्येकवचने `ङेर्यः' इति प्राप्ते–सर्वनाम्नः स्मै। `अतो भिस' इत्यस्मादत इत्यनुवरत्ते। `ङेर्य' इत्यतो `ङे'रिति च। तदाह–अतः सर्वेत्यादिना।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

75) सर्वनाम्न: स्मै 7-1-14

वृत्ति: अत: सर्वनाम्नो ‘ङे’ इत्यस्य स्मै स्यात् । Following a pronoun ending in “अ”, the affix “ङे” is replaced by “स्मै”।

Hence त + ङे = तस्मै