Table of Contents

<<6-4-40 —- 6-4-42>>

6-4-41 विड्वनोरनुनासिकस्य आत्

प्रथमावृत्तिः

TBD.

काशिका

विटि वनि च प्रत्यये परतः अनुनासिकान्तस्य अङ्गस्य आकार आदेशो भवति। अब्जा गोजा ऋतजा अद्रिजा। गोषा इन्दो नृषा असि। कूपखाः। शतखाः। सहस्रखाः। दधिक्राः। अग्रेगा उन्नेतृ\उ0304णाम्। जनसनखनक्रमगमो विट् 3-2-67 इति विट् प्रत्ययः। सनोतेरनः 8-3-108 इति षत्वम् गोषा इन्दो नृषा असि इत्यत्र। वन विजावा। अग्रेजावा। अन्येभ्यो ऽपि दृश्यन्ते 4-3-75 इति वनिप् प्रत्ययः। अनुनासिकस्य इति वर्तमाने पुनरनुनासिकग्रहणम् अनुनासिकामात्रपरिग्रहार्थम्, अन्यथा हि अनुदात्तोपदेशवनतितनोत्यादीनाम् एव स्यात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

804 अनुनासिकस्याऽत्स्यात्. विजायत इति विजावा.. ओणृ अपनयने.. अवावा. विच्.. रुष रिष हिंसायाम्.. रोट्. रेट्. सुगण्..

बालमनोरमा

792 विड्वनोरनुनासिकस्याऽऽत्। विड्वनोरिति सप्तमी। अनुनासिकस्य– आदिति छेदः। विजावेति। जनेर्वनिप्। जनेर्नकारस्य आकारः। सवर्णदीर्घः। अवावेति। ओणेर्वनिप्। णकारस्य आकारः। अवादेशः। विजिति। `उदाह्यियते' इति शेषः। रोट् रेडिति। `रुष, रिष हिंसायाम्' विच्। `वेरपृक्तस्ये'ति वलोपः। सुगण्णिति। गमएर्विच्।

तत्त्वबोधिनी

657 अवावेति। अनुनासिकस्य आत्वे अवादेशः। सौ दीर्घनलोपौ। रोट् रेडिति। रुष रिष हिंसायाम्। उपधागुणः। जश्त्वचर्त्वे।

Satishji's सूत्र-सूचिः

TBD.