Table of Contents

<<8-3-107 —- 8-3-109>>

8-3-108 न रपरसृपिसृजिस्पृशिस्पृहिसवनाऽदीनाम्

प्रथमावृत्तिः

TBD.

काशिका

रेफपरस्य सकारस्य सृपि सृजि स्पृशि स्पृहि सवनादीनां च मूर्धन्यो न भवति। रपर विस्रंसिकायाः काण्डाभ्यां जुहोति। विस्रब्धः कथयति। स्पृपि पुरा क्रूरस्य विसृपः सृजि वाचो विसर्जनात्। स्पृशि दिविस्पृशम्। स्पृहि निस्पृहं कथयति। सवनादीनाम् सवने सवने। सूते सूते। सामे सामे। सवनमुखे सवनमुखे। किं स्यति किंसंकिंसम्। अनुसवनमनुसवनम्। गोसनिं गोसनिम्। अश्वसनिमश्वसनिम्। पूर्वपदातिति प्राप्ते प्रतिषेधः। अश्वसनिग्रहणम् अनिणो ऽपि षत्वम् अस्ति इति ज्ञापनार्थम्। तेन जलाषाहम्, अश्वषाहम् इत्येतत् सिद्धं भवति। क्वचिदेवं गणपाठः सवने सवने। अनुसवने ऽनुसवने। संज्ञायां बृहस्पतिसवः। शकुनिसवनम्। सोमे सोमे। सूते सूते। संवत्सरे संवत्सरे। किंसंकिंसम्। बिसंबिसम्। मुसलंमुसलम्। गोसनिमश्वसनिम्। सवनादिः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.