Table of Contents

<<4-3-74 —- 4-3-76>>

4-3-75 ठगायस्थानेभ्यः

प्रथमावृत्तिः

TBD.

काशिका

आय इति स्वामिग्राह्यो भाग उच्यते, स यस्मिन्नुत्पद्यते तदायस्थानम्। आयस्थनवाचिभ्यः प्रातिपदिकेभ्यः ठक् प्रत्ययो भवति तत आगतः इत्येतस्मिन् विषये। अणो ऽपवादः। छं तु परत्वाद् बाधते। शुल्कशालाया आगतः शौल्कशालिकः। आकरिकम्। बहुवचनं स्वरूपविधिनिरासार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1102 शुल्कशालाया आगतः शौल्कशालिकः..

बालमनोरमा

1433 ठगायस्थानेभ्यः। `तत आगत इत्यर्थे' इति शेषः। हट्टादिषु स्वामिग्राह्रो भागः- आयः। स यस्मिन्गृह्रते तदायस्थानम्, तद्वाचिभ्य इत्यर्थः।

तत्त्वबोधिनी

1122 ठगाय। एत्येनं स्वामी, स्वमिनमयमेतीति वा–आयः=स्वामिग्राह्रो भागः। स यस्मिन्नुपद्यते तदायस्थानम्। बहुवचननिर्देशः स्वरूपग्रहणनिरासार्थः। वृद्धाच्छं परत्वादयं बाधते। आपणिकः। आकरिकः।

Satishji's सूत्र-सूचिः

TBD.