Table of Contents

<<6-4-41 —- 6-4-43>>

6-4-42 जनसनखनां सञ्झलोः

प्रथमावृत्तिः

TBD.

काशिका

झलि क्ङिति इति च अनुवर्तते। जन सन खन इत्येतेषाम् अङ्गानां सनि झलादौ क्ङिति झलादौ प्रत्यये परतः आकार आदेशो भवति। जन् जातः। जातवान्। जातिः। सन् सनि सिषासति। सातः। सातवान्। सातिः। खन् खातः। खातवान्। खातिः। झल्ग्रहणं सन्विशेषणार्थं किमर्थम् अनुवर्त्यते? इह मा भूत्, जिजनिषति। सिसनिषति। चिखनिषति। सनोतेः सनीवन्तर्ध इति पक्षे इडागमः। तदिह सनोत्यर्थम् एव सङ्ग्रहणम्। अत्र झलादौ क्ङिति सनोतेर् विप्रतिषेधादात्वम् अनुनासिकलोपं बाधते। घुमस्थागापाजहातिसां हलि 6-4-66 इति हल्ग्रहणम् ज्ञापकम् अस्मिन्नसिद्धप्रकरणे विप्रतिषेधो भवति इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

679 एषामाकारेऽन्तादेशः स्यात् सनि झलादौ क्ङिति. असात, असनिष्ट.. क्षणु हिंसायाम्.. 3.. क्षणोति, क्षणुते.. ह्म्यन्तेति न वृद्धिः. अक्षणीत्, अक्षत, अक्षणिष्ट. अक्षथाः, अक्षणिष्ठाः.. क्षिणु च.. 4.. अप्रत्यये लघूपधस्य गुणो वा. क्षेणोति, क्षिणोति. क्षेणिता. अक्षेणीत्, अक्षित, अक्षेणिष्ट.. तृणु अदने.. 5.. तृणोति, तर्णोति; तृणुते, तर्णुते.. डुकृञ् करणे.. 6.. करोति..

बालमनोरमा

502 जनसन।`विडवनो'रितय्त आदित्यनुव्रतते। तदाह–एषामाकारोऽन्तादेश इति। सन् झल् इत्यनयोद्र्वन्द्वात्सप्तमीद्विवचनम्। सनि झलि चेति लभ्यते। `अनुदात्तोपदेशे'त्यतो झलिक्ङितीत्यनुवर्तते। तत्र झलीत्यनुवृत्तेन सन् विशेष्यते। तदादिविधिः। झलादौ सनीति लभ्यते। क्ङितीत्यनुवृत्तं त्वेत्सूत्रस्थेन झला विशेष्यते। तदादिविधिः। झलादौ क्ङितीति लभ्यते। तथाच झलादौ सनीति, झलादौ क्ङितीति च परनिमित्तद्वयं लब्धम्। तदाह–झलादौ सनि झलादौ क्ङिति चेति। सन्विशेषणं झलादाविति किम् ?। जिजनिषति। सिसनिषति। चिखनिषति। अथ क्ङितोर्झल्विशेषमस्य प्रयोजनमाह– जज्ञतीति। जनन् अतीति स्थिते अतेर्ङित्त्वेऽपि झलादित्वाऽभावादात्त्वाऽभावे `गमहने'त्युपधालोपे नकारस्य श्चुत्वेन ञकार इति भावः `जनसनखनां स'नित्याश्रित्य योगविभागेन उक्तार्थसिदिं?ध चाश्रित्य झ्लग्रहणं त्वत्र सूत्रे प्रत्याख्यातं भाष्ये। जजंसीति। `नश्चे'त्यनुस्वारः। जजाथः जजाथ। जजन्मि जजन्वः जजन्मः। जजानेति। जज्ञतुः। सेडयम्। जजनिथ जज्ञथुः।जज्ञिव। जनिता। जनिष्यति। जजन्तु–जजातात्। जजाहि। जजनानि। अजजम् अजजाताम्। अजज्ञुः। अजजनम् अजजन्व। विधिलिङि `ये विभाषे'ति मत्वाह– जजायात् जंजन्यादिति। अजनीत्–अजानीत्।अजनिष्यत्। गा स्तुतौ। देवान् जिगातीति। `भृञामि'दित्यत्र `बहुलं छन्दसी'ति वचनादभ्यासस्येत्त्वमिति भावः। जिगीत इति। `ई हल्यघो'रिति ईत्त्वम्। जिगतीति। अभ्यस्तत्वाददादेशे `श्नाभ्यस्तयो'रित्याल्लोपः। जिगासि जिगीथः जिगीथ। जिगामि जिगीवः। जगौ जगतुः। जगिव। गाता। गास्यति। जिगातु- - जिगीतात् जिगीताम् जिगतु। जिगीहि। जिगानि। अजिगात् अजिगीताम् अजिगुः। अजिगाः। अजिगाम् अजिगीव जिगीयात्। आशिषि–गेयात्। अगासीत्। अगास्यत्। इति जुहोत्यादयः। तिङन्ते कण्ड्वादयः।

तत्त्वबोधिनी

430 जनसनखनाम्?। जन जनने, जनी प्रादुर्भावे इत्युभयोरपि ग्रहणम्। झलादौ सनि सिषासति। जज्ञतीति। `गमहने'त्युपधालोपः। जजायादिति। `ये विभाषे'ति वा आत्वम्। एवं जायादित्यत्रापि। जिगातीति। `रबहुलं छन्दसी'ति इत्वम्। \र्\निति तत्त्वबोधिन्याम् जुहोत्यादयः।

Satishji's सूत्र-सूचिः

TBD.