Table of Contents

<<6-4-39 —- 6-4-41>>

6-4-40 गमः क्वौ

प्रथमावृत्तिः

TBD.

काशिका

गमः क्वौ परतः अनुनासिकलोपो भवति। अङ्गगत्। कलिङ्गगत्। अध्वगतो हरयः। गमादीनाम् इति वक्तव्यम्। इह अपि यथा स्यात्, संयत्। परीतत्। ऊ च गमादीनाम् इति वक्तव्यम्। अग्रेगूः। अग्रेभ्रूः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

796 अनुनासिकलोपः स्यादिति शेषपूरणमिदम्। `अनुदात्तोपदेशेटत्यतस्तदनुवृत्तेरिति भावः। झलादिप्रत्ययपरकत्वाऽभावादनुदात्तोपदेशेत्यप्राप्तौ वचनम्। अङ्गगमदिति। अङ्गाख्यं देशं गच्छतीति विग्रहः। क्विपि मकारलोपे तुक्। एवं वह्गगत्। कलिङ्गगदित्यादि। गमादीनामिति। `क्वावनुनासिकलोप' इति शेषः। पुरीतदिति। पुरिः = ह्मदयाख्यो मांसखण्डविशेषः,तं तनोत = आच्छादयतीति विग्रहः। ह्मदयकमलाच्छादको मेदोविशेषः। `पुरीतता हि ह्मदयमाच्छाद्यते' इति श्रुति'रिति कर्किभाष्यम्। तनेः क्विपि नकालोपे तुक्। `नहि वृत्तिवृषी'ति पूर्वपदस्य दीर्घः। संयदिति। यमेः क्विप्। मलोपे तुक्। सुनदिति। नमेः क्विपि मलोपे तुक्। ऊ चेति। गमादीनामुपधाया ऊभावश्चेति वक्तव्यमित्यर्थः। लोपश्चेति।चकारादनुनासिकलोपः समुच्चीयते इति भावः। अग्रेगूरिति। अग्रे गच्छतीति विग्रहः। गमेरकास्य ऊभावः, मलोपश्च। `तत्पुरुषे कृति बहुल'मित्यलुक्। अग्रेभ्रूरिति। भ्रमेरकारस्य ऊभावः, मलोपश्च।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.