Table of Contents

<<6-4-19 —- 6-4-21>>

6-4-20 ज्वरत्वरस्रिव्यविमवाम् उपधायाश् च

प्रथमावृत्तिः

TBD.

काशिका

ज्वर त्वर स्रिवि अव मव इत्येतेषाम् अङ्गानां वकारस्य उपधायाश्च स्थाने ऊट्ः इत्ययम् आदेशो भवति क्वौ परतो ऽनुनासिके झलादौ च क्ङिति। जूः, जूरौ, जूरः। जूर्तिः। त्वर तूः, तूरौ, तूरः। तूर्तिः। स्रिविस्रूः, स्रुवौ, स्रुवः। स्रूतः। स्रूतवान्। स्रूतिः। अव ऊः, उवौ, उवः। ऊतिः। मव मूः, मुवौ, मुवः। मूतः। मूतवान्। मूतिः। ज्वरत्वरोपधा वकारात् परा, स्रिव्यवमवां पूर्वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

868 एषामुपधावकारयोरूठ् अनुनासिके क्वौ झलादौ क्ङिति.. अतः क्विप्. जूः. तूः. स्रूः. ऊः. मूः..

बालमनोरमा

तत्त्वबोधिनी

413 ज्वर रोगे। ञित्वरा संभ्रमे। अत्र वृत्तौ `झलादौ क्ङिती'त्युक्तं तत्र क्ङितीत्येतद्रभयसकृतमेवेत्याह– क्ङितीति नानुवर्तत इति। अवतेस्तुनीति। `ज्वरत्वरे'त्युपधावकारयोरूठि गुणे च कृते मन्प्रत्ययस्य टिलोपे चोमिति सिध्यतीत्यर्थः। ज्वरादेरुदाहरणं क्विपि जूः। जुरौ। जुरः। झलादौ तु– जूर्तिः। जूर्णः। जूर्णवान्। त्वर– तूः। तुरौ। तुरः। तूर्तिः। तूर्णः। तूर्णवान्। रिउआवि- स्रूः। रुआउवौ। रुआउवः। रुआऊतिः। अवि– ऊः। उवौ। उवः।ऊतिः। मव– मूः। मुवौ। मूतः। मूतिः। मामोषीत्यादि। ईट्पक्षे मामवीषि। मामवीमि। मामवीतु। अमामवीत्। अमामवीरिति बोध्यम्। राल्लोपः। `च्छ्वोः शू'डित्तश्च्छ्वोरित्यनुवर्तते। क्वावुदाहरणं–तूः। तुरौ तुरः। धुर्वी– धूः। धुरौ। धुरः। मुच्र्छा–मूः। मुरौ। मुरः।

Satishji's सूत्र-सूचिः

TBD.