Table of Contents

<<6-4-146 —- 6-4-148>>

6-4-147 ढे लोपो ऽकद्र्वाः

प्रथमावृत्तिः

TBD.

काशिका

ढे परतः उवर्णान्तस्य भस्य अकर्वाः लोपो भवति। कामण्डलेयः। शैतवाहेयः। जांवेयः। माद्रबाहेयः। अकद्र्वाः इति किम्? काद्रवेयो मन्त्रम् अपश्यत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

–

बालमनोरमा

1126 ढे लोपोऽकद्र्वाः। भस्येत्यधिकृतम् `ओर्गुणः' इत्यत ओरिति षष्ठ\उfffद्न्तेनानुवृत्तेनविशेष्यते। तदन्तविधिः। तदाह–कद्रूभिन्नस्येति। `अलोऽन्त्यस्ये'त्यन्त्यलोपः। ओर्गुणापवादः। कामण्डलेय इति। कमण्डलोरपत्यमिति विग्रहः। ढकि #एयादेशे आदिवृद्धावुकारलोपः। ननु कमण्डलुशब्दवाच्यस्य जलपात्रस्याऽचेतनस्य कथमपत्ययोगः, तत्राह–कमण्डलुशब्दश्चतुष्पाज्जातिविशेषे इति। अत एव `कमण्डलुपदे आदधीते'ति बह्वृचब्राआहृणं सङ्गच्छत इति भावः।

तत्त्वबोधिनी

–

Satishji's सूत्र-सूचिः

TBD.