Table of Contents

<<6-4-146 —- 6-4-148>>

6-4-147 ढे लोपो ऽकद्र्वाः

प्रथमावृत्तिः

TBD.

काशिका

ढे परतः उवर्णान्तस्य भस्य अकर्वाः लोपो भवति। कामण्डलेयः। शैतवाहेयः। जांवेयः। माद्रबाहेयः। अकद्र्वाः इति किम्? काद्रवेयो मन्त्रम् अपश्यत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1126 ढे लोपोऽकद्र्वाः। भस्येत्यधिकृतम् `ओर्गुणः' इत्यत ओरिति षष्ठ\उfffद्न्तेनानुवृत्तेनविशेष्यते। तदन्तविधिः। तदाह–कद्रूभिन्नस्येति। `अलोऽन्त्यस्ये'त्यन्त्यलोपः। ओर्गुणापवादः। कामण्डलेय इति। कमण्डलोरपत्यमिति विग्रहः। ढकि #एयादेशे आदिवृद्धावुकारलोपः। ननु कमण्डलुशब्दवाच्यस्य जलपात्रस्याऽचेतनस्य कथमपत्ययोगः, तत्राह–कमण्डलुशब्दश्चतुष्पाज्जातिविशेषे इति। अत एव `कमण्डलुपदे आदधीते'ति बह्वृचब्राआहृणं सङ्गच्छत इति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.