TBD.
वकारमकारान्तात् संयोगादुत्तरस्य अनः अकारस्य लोपो न भवति। पर्वणा। पर्वणे। अथर्वणा। अथर्वणे। संयोगातिति किम्? प्रतिदीव्ना। प्रतिदीव्ने। साम्ना। साम्ने। वमन्तातिति किम्? तक्ष्णा। तक्ष्णे।
TBD.
285 वमन्तसंयोगादनोऽकारस्य लोपो न. यज्वनः. यज्वा. यज्वभ्याम्.. ब्रह्मणः. ब्रह्मणा..
शसि अल्लोपे प्राप्ते–न संयोगाद्वमन्तात्। वश्च मूच वमौ, तावन्तौ यस्येति विग्रहः। `अल्लोपोऽन' इत्यनुवर्तते। तदाह–वकारेत्यादिना। अन्तग्रहणं स्पष्टार्थं, वमयोः संयोगविशेषणत्वादेव तदन्तलाभात्। इत्यादीति। यज्वने। यज्वनः 2। यज्वनोः 2। भ्यामादौ हलि राजवदित्यर्थः। मान्तसंयोगस्योदाहरणमाह–ब्राहृण इति। शसादावचि नाऽल्लोपः। शेषं राजवदिति भावः। `वेदस्तत्त्वं तपो ब्राहृ, ब्राहृआ विप्रः प्रजापतिः' इत्यमरः। वृत्रो नाम असुरः, तं हतवानित्यर्थे ब्राहृभ्रूणवृत्रेषु क्विप्। कपावितौ। अपृक्तलोपः। उपपदसमासः। `सुपो धातु' इत्यमो लुक्, वृत्रहन्शब्दः। तस्मात्सुबुत्पत्तिः।
–
194) न संयोगाद्वमन्तात् 6-4-137
वृत्ति: वमन्तसंयोगादनोऽकारस्य लोपो न। The अकारः of “अन्” does not take लोपः (as ordained by 6-4-134), when it follows a conjunct that has वकारः or मकारः as its last member.
गीतासु उदाहरणम् – श्लोकः bg6-5
आत्मन् + टा = आत्मन् + आ 1-3-7, अङ्गम् gets भ-सञ्ज्ञा by 1-4-18, but 6-4-137 stops 6-4-134 and we get the final form आत्मना।