TBD.
इन् हन् पूषन् अर्यमन् इत्येवम् अन्तानाम् अङ्गानां शौ परत उपधाया दीर्घो भवति। बहुदण्डीनि। बहुच्छत्रीणि। बहुवृत्रहाणि। बहुभ्रूणहानि। बहुपूषाणि। बह्वर्यमाणि। सिद्धे सत्यारम्भो नियमार्थः – इन्हन्पूषार्यम्णाम् उपधायाः शावेव दीर्घो भवति न अन्यत्र। दण्डिनौ। छत्रिणौ। वृत्रहणौ। पूषणौ। अर्यमणौ।
दीर्घविधिर्य इहेन्प्रभृतीनां तं विनियम्य सुटीति सुविद्वान्।
शौ नियमं पुनरेव विदध्यात् भ्रूणहनीति तथास्य न दुष्येत्।।
शास्मि निवर्त्य सुटीत्यविशेषे शौ नियमं कुरु वाप्यसमीक्ष्य।
दीर्घविधेरुपधानियमान्मे हन्त यि दीर्घविधौ च न दोषः।।
सुट्यपि वा प्रकृतेऽनवकाशः शौ नियमोऽप्रकृतप्रतिषेधे।
यस्य हि शौ नियमः सुटि नैतत्तेन न तत्र भवेद्विनियम्यम्।।
हन्तेः ‘अनुनासिकस्य क्विझलोः क्ङिति’ 6-4-15 इति दीर्घत्वं यत्, तदपि नियमेन बाध्यते – वृत्रहणि, भ्रूणहनि इति। कथम्? योगविभागः क्रियते। इन्हन्पूषार्यम्णाम् सर्वनामस्थाने एव दीर्घो भवति, न अन्यत्र इति। ततः शौ इति द्वितीयो नियमः। शौ एव सर्वनामस्थाने दीर्घो भवति न अन्यत्र इति। सर्वस्य उपधालक्षणस्य दीर्घस्य नियमेन निवृत्तिः क्रियते। यस्तु न उपधालक्षणः स भवत्येव। वृत्रहायते। भ्रूणहायते। अथ वा अनुवर्तमानेऽपि सर्वनामस्थानग्रहणे सामर्थ्यादयम् अविशेषेण नियमः। शिशब्दो हि सर्वनामस्थानं नपुंसकस्य, न च तस्य अन्यत् सर्वनामस्थानम् अस्ति इत्यविशेषेण नियमः। तत्र तु नपुंसकस्य इत्येतद् न अश्रीयते। तेन अनपुंसकस्य अपि दीर्घो न भवति। सर्वनामस्थानसंज्ञाविधाने तु नपुंसकस्य व्यापारोऽस्ति इति तत्र नियमः क्रियमणो नपुंसकस्य स्यात्।TBD.
286 एषां शावेवोपधाया दीर्घो नान्यत्र. इति निषेधे प्राप्ते -.
सौ विशेषमाह–इन्हन्। `ढ्रलोपे' इत्यतो `दीर्घ' इत्यनुवर्तते। `नोपधायाः' इत्यत `उपधाया' इति। तदाह–एषामिति। इन् हन् पूषन् अर्यमन्नित्यन्तानामित्यर्थः। अङ्गविशेषणत्वेन तदन्तविधिः। `सर्वनामस्थाने चे'ति सिद्धे नियमार्थमित्याह– शावेवेति। नान्यत्रेति। शेरन्यत्रेत्यर्थः। इति निषेधे प्राप्त इति। वृत्रहन्शब्दे हन् इत्यस्यापि शावेव दीर्घ इति नियमात्सौ परतः `सर्वनामस्थाने' इति दीर्घेऽप्राप्ते सतीत्यर्थः।
316 इन्हन्। `सर्वनामस्थाने चासंबुद्धा'वित्यनेनैव सिद्धे नियमार्थमिदं, तदाह— शावेवोपधाया इति। उपधादीर्घमात्रस्यायं नियमः। तेन `वृत्रहायते'इत्यत्र `अकृत्सार्वधातुकयो'रिति दीर्घो भवत्येव। `वृत्रहणी'इत्यत्र `अनुनासिकस्य क्विझलो रिति यो दीर्घः सोऽपि नियमेन व्यावर्त्त्यते। उपधादीर्घमात्रपेक्षया नियमविज्ञानादिति तु मनोरमायां स्थितम्। शावेवेति नियमाद्दीर्घस्याऽप्राप्तावाह-
195) इन्हन्पूषार्यम्णां शौ 6-4-12
वृत्ति: एषां शावेवोपधाया दीर्घो नाऽन्यत्र। The lengthening (ordained by 6-4-8) of the penultimate letter of terms ending in “इन्”, “हन्”, “पूषन्” and “अर्यमन्” should be done only when the शि-प्रत्यय: follows, not when followed by other सर्वनामस्थानम् affixes.
गीतासु उदाहरणम् – श्लोकः bg6-17
दु:खहन् + सुँ = दु:खहन् + स् 1-3-2. Here 6-4-12 stops 6-4-8 from applying, but then the next rules comes in.
गीतासु द्वितीयम् उदाहरणम् – श्लोकः bg12-14
योगिन् + सुँ = योगिन् + स् 1-3-2. Here 6-4-12 stops 6-4-8 from applying, but then the next rules comes in.
Examples continued below: