Table of Contents

<<6-3-139 —- 6-4-2>>

6-4-1 अङ्गस्य

प्रथमावृत्तिः

TBD.

काशिका

अधिकारो ऽयम् आसप्तमाध्यायपरिसमाप्तेः। यदित ऊर्ध्वम् अनुक्रमिष्यामः अङ्गस्य इत्येवं तद् वेदितव्यम्। वक्ष्यति हलः 6-4-2 हूतः। जीनः। संवीतः। अङ्गस्य इति किम्? निरुतम्। दुरुतम्। नामि दीर्घः 6-4-6 अग्नीनाम्। वायूनाम्। अङ्गस्य इति किम्? क्रिमिणां पश्य। पामनां पश्य। अतो भिस ऐस् 7-1-9 वृक्षैः। प्लक्षैः। अङ्गस्य इति किम्? ब्राह्मणभिस्सा। ओदनभिस्सिटा। अङ्गाधिकारः कृतो ऽन्यार्थो नामि दीर्घत्वाद्यपि व्यवस्थापयति इति तदर्थम् अर्थवद्ग्रहणपरिभाषा नाश्रयितव्या भवति। अङ्गस्य इति सम्बन्धसामान्ये एषा षष्ठी यथायोगं विशेषेषु अवतिष्ठते। अथ वा प्रातिपदिकार्थमात्रम् अविवक्षितविभक्त्यर्थम् अधिक्रियते। ततुत्तरत्र यथायोगं विपरिणम्यते। ततो ऽकारान्तादङ्गात् भिस ऐसित्येवम् आद्यपि सम्यक् सम्पन्नं भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.