TBD.
इगन्तस्य अङ्यन्तस्य उत्तरपदे ह्रस्वः भवति गालवस्य आचर्यस्य मतेन अन्यतरस्याम्। ग्रामणिपुत्रः ग्रामणीपुत्रः। ब्रह्मबन्धुपुत्रः, ब्रह्यबन्धूपुत्रः। इकः इति किम्? खट्वापादः। मालापादः। अङ्यः इति किम्? गार्गीपुत्रः। वात्सीपुत्रः। गालवग्रहणं पुजार्थम्। अन्यतरस्याम् इति हि वर्तते। व्य्वस्थितविभषा च इयम्। तेन इह न भवति, कारीषगन्धीपुत्रः इति। इयङुवङ्भाविनाम् अव्ययानां च न भवति। श्रीकुलम्। भ्रूकुलम्। काण्दीभूतम्। वृषलीभूतम्। भ्रूकुंसादीनां तु भवत्येव। भ्रुकुंसः। भ्रुकुटिः। अपर आह। भ्रुकुंसादीनाम् अकारो भवति इति वक्तव्यम्। भ्रकुंसः। भ्रकुटिः।
TBD.
–
984 इको ह्यस्वो। अङ्य इति च्छेदः। ग्रामणीपत्र इति। कर्मधारयः, षष्ठीसमासो वा। नीधातोरीकारोऽयं, नतु ङीप्प्रत्यय इति भावः। ननु गालवग्रहणस्य विकल्पार्थकत्वं किं न स्यादित्यत आह–अन्यतरस्यामित्यनुवृत्तेरिति। \र्\नियङुवङ्भाविनामिति। तदर्हाणामित्यर्थः। श्रीमदः भ्रूभङ्ग इति। श्रीभ्रूशब्दौ अजादिप्रत्यये परे इयङुवङ्?र्हाविति भावः। शुक्लीभाव इति। अभूततद्भावे च्विप्रत्यये `अस्य च्वौ' इति ईत्त्वम्। `च्वौ' इति दीर्घः। ऊर्यादिच्विडाचश्चे'ति निपातत्वादव्ययत्वमिति भावः। \र्\नभ्रूकुंसादीनामिति। भ्रूशब्दस्य उवङ्भावितया ह्यस्वनिषेधो यः प्राप्तः स नेत्यर्थः। अकारोऽनेनेति। `अ भ्रूकुंसादीना'मिति वार्तिके `अ' इति लुप्तप्रथमाकं पृथक्पदम्। तथा च भ्रूकुंसादीनामवयवो यो भ्रूशब्दस्तस्य अकारोऽन्तादेशः स्यादिति व्याख्यानान्तरमित्यर्थः। भ्रुवा कुंसो भाषणमिति। तत्तदर्थज्ञापनमित्यर्थः। `भ्रुकुंसश्च भ्रुकुंसश्च भ्रूकुसश्चेति नर्तकः' इत्यमरः, `भ्रकुटिर्भ्रुंकुटिर्भ्रूकुटिः स्त्रियामि'ति च।
–
TBD.