TBD.
अल्पाख्यायां योगन्धशब्दः तस्य इकारादेशो भवति समासान्तो बहुव्रीहौ समासे। सूपो ऽल्पो ऽस्मिन् सूपगन्धि भोजनम्। अल्पम् अस्मिन् भोजने घृतम् घृतगन्धि। क्षीरगन्धि। अल्पपर्यायो गन्धशब्दः।
TBD.
–
865 अल्पाख्यायाम्। अल्पवचने सति गन्धशब्दस्य इकारोऽन्तादेशः स्याद्बहुव्रीहावित्यर्थः। `लेशः' इति गन्धशब्दस्य विवरणम्। सूपस्य गन्धो यस्मिन्नित्येव विग्रहः। सूपगन्धि भोजनमिति। उत्पूतिसुसुरभिपूर्वंकत्वाऽभावादेकान्तत्वाऽभावाच्चाऽप्राप्ते वचनमिदम्। व्यधिकरणपदानामपि क्वचिदस्ति बहुव्रीहिरिति मूल एवानुपदं वक्ष्यते। घृतगन्धीति। घृतस्य गन्धो लेशो यस्मिन्निति विग्रहः। गन्धशब्दस्याऽल्पवाचित्वे प्रमाणमाह– गन्धो गन्धक इति।
754 अल्पाख्यायाम्। अल्पवाचिनो गन्धस्येकारान्तादेशः स्याद्बहुव्रीहौ। सूपस्य गन्ध इति। अतएव ज्ञापकाव्द्यधिकरणपदो बहुव्रीहिः। यद्वा फलितार्थकनमेतत्। सूपो गन्धो यस्मिन्नित्येव विग्रहः। गन्धशब्दस्य विसेषणत्वेऽप्यस्मादेव ज्ञापकात्परनिपातः।
TBD.