TBD.
ढकाररेफयोः लोपः यस्मिन् स ढ्रलोपः, तत्र पूर्वस्य अणः दीर्घो भवति। लीढम्। मीढम्। उपगूढम्। मूढः। रलोपे नीरक्तम्। अग्नीरथः। इन्दूरथः। पुना रक्तं वासः। प्राता राजक्रयः। पूर्वग्रहणम् अनुत्तरपदे ऽपि पूर्वमात्रस्य दीर्घार्थम्। अणः इति किम्? आतृढम्। आवृढम्।
TBD.
112 ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः. पुना रमते. हरी रम्यः. शम्भू राजते. अणः किम्? तृढः. वृढः. मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रोरीति लोपे च प्राप्ते..
173 ढ्रलोपे। ढच् रेफश्च ढ्रौ, तौ लोपयतीति-ढ्रलोपः। ण्यन्तात्कर्मण्युपपदे अण्, उपपदसमासः। ढलोपनिमित्तं रेफलोपनिमित्तञ्च विवक्षितम्। तच्च ढकाररेफात्मकमेव, ढो ढे लोपः, रो रीति तयोरेव ढ्रलोपनिमित्तत्वात्। तथाच ढलोपनिमित्ते ढकारे, रेफलोपनिमित्ते रेफे च परतः पूर्वस्याणो दीर्घ इत्यर्थः फलति। तदाह–ढरेफाविति। `ढलोपे रेफलोपे च पूर्वस्याणो दीर्घ' इति तु न व्याख्यातं, तथा सति चयनीयमित्यनीयप्र्रत्ययान्ते `तस्य लोप' इति रेफलोपे यकारादकारस्य, चकार चचारेत्यादौ अभ्यासे अकारस्य च हलादिशेषेण रेफलोपे दीर्घापत्तेः। पुना रमत इति। `पुनर्-रमते' इति स्थिते `रो री' ति रेफलोपः। तन्निमित्ते रेफे परे नकारादकारस्य दीर्घः। हरी रम्य इति। हरिस्–रम्य इति स्थिते रुत्वे रेफलोपे चाऽनेन दीर्घः। शम्भू राजत इति। शम्बुस्-राजते इति स्थिते रुत्वे रेफलोपेऽनेन दीर्घः। त्रयाणामुदाहरणात्पूर्वेणैव णकारेणात्राण् गृह्रत इति सूचितम्। इति। अत्र ऋकारस्य दीर्घनिवृत्त्यर्थमण्ग्रहणम्। ऋकारश्चात्र अण्ग्रहणे न गृह्रते। पूर्वेणैव णकारेण प्रत्याहाराश्रयणात्, अन्यथा दीर्घश्रुत्या `अच' इत्युपस्थितौ किमण्ग्रहणेनेति भावः। ननु तृढो वृढ इत्यत्र ढ्रलोपस्यैवाऽभावाद्दीर्घाऽप्रसक्तेरण्ग्रहणं व्यर्थमित्याशङ्क्य तत्र ढलोपं दर्शयितुमाह–तृहू हिंसायाम्। वृहू उद्यमन इति। आभ्यां क्तप्रत्यये `हो ढः' इति ढत्वे `झषस्तथोः' इति तकारस्य धत्वे, तस्य ष्टुत्वेन ढकारे, ढो ढे लोप इति पूर्वस्य ढकारस्य लोपे, तृढो वृढ इति रूपे। अत्र ढलोपनिमित्ते ढकारे परे ऋकारस्य दीर्घनिवृत्त्यर्थमण्ग्रहणमिति भावः। ननु `तस्मिन्निति निर्दिष्टे पूर्वस्य'त्येव सिद्धौ पूर्वस्येति किमर्थमित्यत आह–पूर्वग्रहणमिति। `ढ्रलोप' इति सूत्रस्य `अलुगुत्तरपदे' इत्युत्तरपदाधिकारस्थत्वादुत्तरपदस्थयोरेव ढ्रलोपनिभित्तभूतढरेफयोः परतः पूर्वपदस्थत्वाभावाच्च। इष्यते च लीढो गुढ इति। अतः पूर्वग्रहणम्। कृते तु पूर्वग्रहणे तत्सामथ्र्यादनुत्तरपदस्थयोरपि ढरेफयोः परतोऽपूर्वपदस्थस्यापि पूर्वस्या।ञणो दीर्घः सिध्यतीत्यर्थः। तथा उत्तरपद इत्यस्यानुवृत्तौ अजर्घा इत्यत्रापि दीर्घो न स्यात्। `गृधु अभिकाङ्क्षायाम्'। यङ्लुक्, द्वित्वम्, हलादिः शेषः, अब्यासस्य रुक्, कुहोश्चुः, जश्त्वम् , लङ् सिप्, शप्, लुक्, लघूपधगुणः, रपरत्वम्, इतश्चेति इकारलोपः, हल्ङ्यादिना सुलोपः, जर् गर् ध् इति स्थिते `एकाचो बश' इति गकारस्य भष्भावो घकारः, जश्त्वं दकारः, दश्चेति रुः, अडागमः, अजर्घर् र् इति स्थिते रो रीति रेफलोपः, ढ्रलोप इति दीर्घः, विसर्गः। अजर्घा इति रूपम्। अत्रापि रेफलोपनिमित्तरेफस्य उत्तरपदस्थत्वाभावात्तस्मिन् परतोऽकारस्य दीर्घो न स्यात्। अत उत्तरपदानुवृत्तिनिवृत्तये पूर्वग्रहणम्। यद्यपि ढ्रलोपे इत्यत्र ढलोपनिमित्तढकारविषये उत्तरपद इत्यस्यानुवृत्तिसंभवादेव न सम्भवति, तथापि `अजर्घा' इत्यत्र रेफलोपनिमित्तरेफविषये उत्तरपद इत्यस्यानुवृत्तिनिवृत्तये पूर्वग्रहणम्। तदनुवृत्तौ हि नीरक्तम्, दूरक्तमित्यादावेव स्यात्। `अजर्घा' इत्यत्र न स्यात्। पुना रमत इत्यादावसमासे।ञपि न स्यात्। उत्तरपदशब्दस्य समासचरमावयव एव रूढत्वादित्यलम्। ननु मनोरथ इत्यत्र मनस्-रथ इति स्थिते, सस्य रुत्वे, तस्य रेफस्य `हशि चे'त्युत्वं रो री'ति लोपश्चेत्युभयं प्रसक्तं, तत्र कतरद्बाध्यमित्यत्र निर्धारयति–मनस् रथ इत्यत्रेति। मनस्-रथैत्यत्र रुत्वे कृते, हशि चेत्युत्वे, रो रीति रेफलोपे च प्राप्ते उत्वमेवेत्यन्वयः।
143 ढ्रलोपे। `रे'त्यकार उच्चारणार्थः। ढश्च रश्च ढ्रौ, तौ लोपयतीति ढ्रलोपः। णिजन्तात्कर्मण्यण्युपपदसमासः। तृढो वृढ इति। ऊदित्त्वेन वेट्?कत्वाद्यस्य विभाषेति निष्ठायां नेट्। ढत्वधत्वष्टुत्वढलोपाः। प्राचा तु `दृढ' इति प्रत्युदाह्मतं, तदसत्, तत्र ढलोपस्यैवाऽभावात्। `दृढः स्थूलबलयो'रिति घत्वेन बाधात्। न चेडभावो ढत्वं नलोपश्च निपात्यतां, धत्वष्टुत्वढलोपास्तु भविष्यन्त्येवेति वाच्यम्, तथा सति `परिद्रढय्ये'त्यत्र `ल्यपि लघुपूर्वा'दिति णेरयादेशो न स्यात्। [तथा] `पारिवृढी कन्ये'त्यत्र `इतो मनुष्यजाते'रिति ङीषं बाधित्वा `अणिञो'रिति ष्यङ् स्यात्, ढलोपस्याऽसिद्धत्वेन गुरूपोत्तमत्वादित्याकरे स्थितम्। ननु `परिद्रढय्ये'त्यत्र ल्यबादेशः कथं भवेद्यावता परिदृढमाचण्टे इति णिचि कृते क्त्त्वाप्रत्यये च क्त्त्वान्त एव परेरन्तर्भावात्समासाऽभाव इति चेदत्र कैयटः-सङ्ग्रामयतेरेव सोपसर्गात्प्रत्ययोत्पत्तिर्नान्यस्मादिति नियमात्परिशब्दं पृथक्कृत्य दृढशब्दादेव णिच्क्रियते। णिजन्तस्य धातुत्वात्क्त्त्वाप्रत्यये कृते परेः क्त्त्वान्तेन कृदन्तेन समास इति सिद्धो ल्यबादेशः। णाविष्ठवद्भावाद्रभाव इति। ननु `पूर्वस्ये'ति व्यर्थं, सप्तमीनिर्देशादेव तल्लाभादत आह- पूर्वग्रहणमित्यादि। `ढ्रलोपे पूर्वस्ये'ति सूत्रस्योत्तरपदाधिकारस्थत्वादुत्तरपदस्थयोरेव ढरेफयोः परतो दीर्घः स्यान्न तु `लीढः' `अजर्घाः' इत्यत्रेति भावः। यद्यप्यसंभवादेवानुत्तरपदस्थे ढकारे दीर्घो भनेत्तथाप्यजर्घा इत्यत्र दीर्घो न स्यादिति ज्ञेयम्। वस्तुतस्तूत्तरपदस्य समासचरमावयवे रूढत्वात्पुना रमत इत्यादावपि न स्यात्, किंतु `नीरक्तं' `दूरक्त'मित्यादावेव स्यादिति तत्त्वम्। लीढ इति। `लिह आस्वादने' क्तः। ढत्वधत्वष्टुत्वढलोपाः। इह ढलोपं प्रति ष्टुत्वं नासिद्धं, ढकारे परतो लोपविधिसामथ्र्यात्। अतएव `ढो ढे लोपः' इत्यस्य पदाधिकारस्थत्वेऽप्यपदान्तस्य ढस्य लोपो भवति। अजर्घा इति। `गृधु अभिकाङ्क्षायां' यङ्लुकि द्वित्वे अभ्यासस्य रुक्। लङः सिपि शब्लुकि सिप ईडभावपक्षे लघूपधगुणो रपरः। `इतश्चे'तीकारलोपे हल्ङ्यादिलोपः। भष्भावः। जश्त्वं। `दश्चे'ति रुत्वपक्षे `अजर्घर् र्' इति स्थिते `रोरी'ति रेफलोपेऽनेन दीर्घः। अत्रेयं सुगमा व्याख्या-ढ्रलोपे पूर्वस्य दीर्घोऽणः। लीढः। नीरक्तं। दूरक्तम्। अणः किम् ?। तृढः वृढः। पूर्वग्रहणमनुत्तरपदेऽप#इपूर्वमात्रस्य दीर्घार्थम्। अजर्घाः। पुना रमते। हरी रम्यः। शम्भू राजते' इति।
37) ढ्रलोपे पूर्वस्य दीर्घोऽण: 6-3-111
वृत्ति: ढकाररेफयोर्लोपो यस्मिन् स ढ्रलोप:, तत्र पूर्वस्याणो दीर्घो भवति । When the letter “ढ्” or “र्” is dropped then the prior अण् letter gets elongated.
चमूस् रामाय = चमूर् रामाय 8-2-66 = चमू रामाय 8-3-14 = चमू रामाय (No change in this case because the vowel ऊ of चमू was already long.)
देवीमाहात्म्ये (तृतीये अध्याये) उदाहरणम् -
तेजोभिस् + रविबिम्बम् = तेजोभिर् + रविबिम्बम् 8-2-66 = तेजोभि + रविबिम्बम् 8-3-14 = तेजोभी + रविबिम्बम्