TBD.
सङ्ख्या वि साय इत्येवंपूर्वस्य अह्नशब्दस्य स्थाने अहनित्ययम् आदेशो भवत्यन्यतरस्यां ङौ परतः। द्वयोरह्नोर् भवः द्व्यह्नः। त्र्यह्नः। द्व्यह्नि, द्व्यहनि। त्र्यह्नि, त्र्यहनि। द्व्यह्ने। त्र्यह्ने। व्यपगतमहः व्यह्नः। व्यह्नि, व्यहनि, व्यह्ने। सायमह्नः सायाह्नः। सायाह्नि, सायाहनि, सायाह्ने। एकदेशिसमासः पूर्वादिभ्यो ऽन्यस्य अपि भवति इत्येतदेव विसायपूर्वस्य अह्नस्य ग्रहणं ज्ञापकम्। तेन मध्यमह्नः मध्याह्नः इत्यपि भवति। सङ्ख्याविसायपूर्वस्य इति किम्? पूर्वाह्णे। अपराह्णे।
TBD.
–
236 ङौ विशेषमाह–सङ्ख्याविसाय। सङ्ख्या च विश्च सायश्च सङ्ख्याविसायाः। ते पूर्वे यस्मादिति विग्रह इत्यभिप्रेत्याह–सङ्ख्येत्यादिना। सङ्ख्यापूर्वमुदाहरति– द्व्यह्नि द्व्यहनीति। अल्लोपे तदभावे च रूपम्। व्द्यह्ने इति। अहन्नादेशाऽभावे रूपम्। एवं विपूर्वमुदाहरति-विगतमिति। `प्रादयो गताद्यर्थे प्रथमये'ति समासः। पूर्ववदह्नादेशः। सायपूर्वमुदाहरति-अहः साय इत्यादिना। अत एव ज्ञापकादेकदेशिसमासः। वि\उfffदापा इति। आबन्तत्वाऽभावान्न सुलोपः। एतदर्थमेव हल्ङ्यादिसूत्रे सत्यपि दीर्घग्रहणे आब्ग्रहणमिति भावः। वि\उfffदां पाति=रक्षतीत्यर्थे `आतोऽनुपसर्गे कः' इति प्राप्ते वाऽसरूपन्यायेन `आतो मनिन्क्वनिब्वनिपश्चे'ति चकाराद्विच्। यद्यपि तत्र `विदुपेश्छन्दसी'त्यतश्छन्दसीत्यनुवर्तते तथापि वेदेऽनेन क्विच्, लोके तु `अन्येभ्योऽपि दृश्यते' इति विच्। अन्ये तु `क्विप्चे'ति सूत्रेण क्विपमाहुः। `घुमास्थे'तीत्त्वं तु न, `वकारे ईत्त्वप्रतिषेधः' इति वार्तिकात्। क्वनिपि `पावान' इत्येतदर्थं तस्यावश्यकत्वात्। क्विपस्त्वादन्तेभ्यो भाष्यानुक्तक्विब्भ्योऽनभिधानमेवेति शब्देन्दुशेखरे स्पष्टम्। अत एव भाष्ये `पावान'इत्य्तर वनिपा रूपसिद्धिमाश्रित्य `ईत्त्वमवकारादाविति वक्तव्य'मिति वार्तिकं प्रत्याख्यातम्। ततश्च `वि\उfffदापाः' इत्यत्र विजेव। वि\उfffदापा-औ इति स्थिते `प्रथमयोः पूर्वसवर्णः' इति प्राप्ते-।
200 अह्नः साय इति। स्यतेर्घञि अवसानवचनः सायशब्दः, सङ्याविसाये'ति ज्ञापकादेकदेशिसमासः। इत्यदन्ताः। वि\उfffदापा इति। वि\उfffदां पाति रक्षतीति विग्रहे `पा रक्षणे' इत्यस्मात् `आतोऽनुपसर्गे' इति कं बाधित्वा `आतोमनिन्क्वनिब्वनिपश्चे'ति चकाराद्विजिति व्याख्यातारः। इह च्छन्दसि `आतो मनिन्- -' इति विच्। लोके तु `अन्येभ्योऽपि दृश्यते' इत्यनेनेति विवेकः।
TBD.