TBD.
सहि वहि इत्येतयोः अवर्णस्य ओकार आदेशो भवति ढ्रलोपे। सोढा। सोढुम्। सोढव्यम्। वोढा। वोढुम्। वोढव्यम्। अवर्णस्य इति किम्? ऊढः। ऊढवान्। वर्णग्रहणं किम्? कृतायाम् अपि वृद्धौ यथा स्यात्। उदवोढाम्। उदवोढम्। तादपि परः तपरः, तपरत्वादाकारस्य ग्रहणं न स्यात्।
TBD.
553
194 सहिवहोः। ढलोपे इति। `ढ्रलोप' इत्यतस्तदनुवृत्तेरिति भावः। `रलोप' इति तु नानुवर्तते, असंभवात्। तथा चसकारादकारस्य ओत्वे सोढेति रूपम्। `परिसोढे'त्यत्र `परिनिविभ्य' इति षत्वे प्राप्ते–
167 इह रेफलोपस्याऽसंभवात् `ढ्रलोपे पूर्वस्ये'त्यतो `ढलोप' एवानुवर्तते। तदाह- - ढलोप इति। ढलोपे किम् ?। सहते। वहते।
TBD.