Table of Contents

<<8-3-13 —- 8-3-15>>

8-3-14 रो रि

प्रथमावृत्तिः

TBD.

काशिका

रेफस्य रेफे परतो लोपो भवति। नीरक्तम्। दूरक्तम्। अग्नी रथः। इन्दू रथः। पुना रक्तं वासः। प्राता राजक्रयः। पदस्य इत्यत्र विशेषणे षष्ठी, तेन अपदान्तस्य अपि रेफस्य लोपो भवति, जर्गृधेः अजर्घाः, पास्पर्धेः अपास्पाः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

111 रेफस्य रेफे परे लोपः..

बालमनोरमा

172 रो रि। `र' इति षष्ठी। `ढो ढ लोप' इत्यतो `लोप' इत्यनुवर्तते, तदाह-रेफस्येति। पुनर्-रमते इति स्थिते रेफस्य लोपः।

तत्त्वबोधिनी

142 विसर्गापवाद इति। मो राजिवद्रेफस्य रेफो विधीयते विकारनिवृत्त्यर्थमिति भावः।

Satishji's सूत्र-सूचिः

36) रो रि 8-3-14

वृत्ति: रेफस्य रेफे परतो लोपो भवति । The letter “र्” (referred to as रेफ:) is dropped when followed by the letter “र्”।

गीतासु उदाहरणम् न अस्ति ।

ध्यानश्लोके उदाहरणम् -

चमूस् रामाय = चमूर् रामाय 8-2-66 = चमू रामाय