Table of Contents

<<6-2-28 —- 6-2-30>>

6-2-29 इगन्तकालकपालभगालशरावेषु द्विगौ

प्रथमावृत्तिः

TBD.

काशिका

इगन्ते उत्तरपदे, कालवाचिनि, कपाल भगाल शराव इत्येतेषु च द्विगौ समासे पूर्वपदं प्रकृतिस्वरं भवति। इगन्त पञ्चारत्निः। दशारत्निः। पञ्चारत्नयः प्रमाणमस्य, दशारत्नयः प्रमाणमस्य इति तद्धितार्थे द्विगुः, प्रमाणे लः द्विगोर् नित्यम् इति मात्रचो लोपः। इगन्त। काल पञ्चमास्यः। दशमास्यः। पञ्च मासान् भृतो भूतो भावी वा इति तद्धितार्थे द्विगोर् यप् 5-1-82। पञ्चवर्षः। दशवर्षः। वर्षाल् लुक् च 5-1-88 इति ठञो लुक्। काल। कपाल पञ्चकपालः। दशकपालः। कपाल। भगाल पञ्चभगालः। दशभगालः। भगाल। शराव पञ्चशरावः। दशशरावः। संस्कृतं भक्षाः 4-2-16 इति तद्धितार्थे एते समासाः द्विगोर् लुगनपत्ये 4-1-88 इति कृताण्प्रत्ययलोपा द्रष्टव्याः। इगन्तादिषु इति किम्? पञ्चभिरश्वैः क्रीतः पञ्चाश्वः। दशाश्वः। द्विगौ इति किम्? परमारत्निः। परमशरावम्। पञ्चारत्न्यो दशारत्न्यः इति च यण्गुणयोः बहिरङ्गलक्षणयोरसिद्धत्वात् स्थानिवद्भावाद् वा द्विगुस्वर इगन्तलक्षणः प्रवर्तते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.