Table of Contents

<<5-1-81 —- 5-1-83>>

5-1-82 द्विगोर् यप्

प्रथमावृत्तिः

TBD.

काशिका

मासाद् वयसि ति वर्तते। मासान्ताद् द्विगोर् यप् प्रत्ययो भवति वयस्यभिधेये। द्वौमासौ भूतः द्विमास्यः। त्रिमास्यः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1723 द्विगोर्यप्। अनुवर्तत इति। मासान्ताद्?द्विगोर्भूत इत्यर्थे यप्स्याद्वयसि गम्ये इत्यर्थः।

तत्त्वबोधिनी

1331 द्विगोर्यप्। प्राग्वतेः संख्यापूर्वपदानां तदन्तविधेरभ्युपगमात्पूर्वेण यत्खञोः प्राप्तयोर्यब्विधीयते। पित्त्वादनुदात्तःष। तेन `द्विमासः'इत्यादौ `इदन्तकाले'त्यादिना पूर्वपदप्रकृतिस्वरोऽवतिष्ठते। `यः'इत्युक्ते तु प्रत्ययस्योदात्तत्वादन्तोदात्तो द्विमासः स्यात्, सति शिष्टस्वरबलीयस्त्वादिति भावः।

Satishji's सूत्र-सूचिः

TBD.