Table of Contents

<<4-1-87 —- 4-1-89>>

4-1-88 द्विगोर् लुगनपत्ये

प्रथमावृत्तिः

TBD.

काशिका

प्राग्दीव्यतः इति वर्तते, न भवनातिति। द्विगोः इति षष्ठी। द्विगोर् यः सम्बन्धी निमित्तत्वेन तद्धितः प्राग्दीव्यतीयो ऽपत्यप्रत्ययं वर्जयित्वा तस्य लुग् भवति। पज्चसु कपालेषु संस्कृतः पज्चकपालः। दशकपालः। द्वौ देवादधीते द्विवेदः। त्रिवेदः। अनपत्ये इति किम्? द्वैदेवदत्तिः। त्रैदेवदत्तिः। प्राग्दिव्यतः इत्येव, द्वैपारायणिकः। द्विगुनिमित्तविज्ञानादिह न भवति, पञ्चकपालस्य इदं पाञ्चकपालम्। अथ वा द्विगोरेव अयं लुग् विधीयते। द्विगोः इति स्थानषष्ठी। ननु च प्रत्ययादर्शनस्य एषा संज्ञा? सत्यम् एतत्। उपचारेण तु लक्षणया द्विगुनिमित्तभूतः प्रत्यय एव द्विगुः, तस्य लुग् भवति। द्विगुनिमित्तको ऽपि तर्हि गुणकल्पनया कस्मान् न द्विगुरुच्यते पाज्चकपालम् इति? न तस्य द्विगुत्वम् निमित्तम्। इतरस् तु द्विगुत्वस्य एव निमित्तम् इत्यस्ति विशेषः। यद्येवम् इह कथं पञ्चकपाल्यां संस्कृतः पञ्चकपालः इति? न एव अत्र तद्धित उत्पद्यते। वाक्यम् एव भवति। त्रैशब्द्यं हि साध्यं, पञ्चसु कपालेषु संस्कृतः, पञ्चकपाल्यां संस्कृतः पञ्चकपालः इति। तत्र द्वयोः शब्दयोः समानार्थयोरेकेन विग्रहः। अपरस्मादुत्पत्तिर् भविष्यति। अथ इह कस्मान् न भवति, पञ्चभ्यो गर्गेभ्य आगतं पज्चगर्गरूपयम्, पञ्चगर्गम् अयम् इति वा इत्यनुवर्तते। सा च व्यवस्थितविभाषा विज्ञायते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1063 द्विगोर्लुगनपत्ये। द्विगोरिति हेतुत्वसंबन्धे षष्ठी। लुक्श्रवणात्प्रत्ययस्येत्युपस्थितम्, प्रत्ययाऽदर्शनस्यैव लुक्त्वात्। तताच `द्विगुनिमित्तस्य प्रत्ययस्य लु'गिति लभ्यते। द्विगुनिमित्तश्च प्रत्ययस्तद्धित एव भवति तद्धितार्थे विषये तद्विधानात्। ततश्च `द्विगुनिमित्तस्य तद्धितस्ये'ति लभ्यते। द्विगुनिमित्तस्य तद्धितस्ये'ति लभ्यते। प्राग्दीव्यत' इत्यनुवृत्तेः। तद्धितविशेषणं। `गोत्रेऽलुगची'त्युत्तरसूत्रेऽचीति सप्तम्यन्तस्य गोत्रविशेषणतया तदादिविधिः। अजादावित्यर्थकमचीति पदमिहाऽपकृष्यते। तच्च षष्ठ\उfffदा विपरिणतं तद्धितविशेषणम्। तदाह–द्विगोर्निमित्तमित्यादिना। पञ्चकपाल इति। `संस्कृतं भक्षाः' इत्यण्। तद्धितार्थे द्विगुः। अणो लुक्। प्रत्ययलक्षणाऽभावान्नादिवृद्धिः। पञ्चकपालस्येदमिति। पञ्चसु कपालेषु संस्कृतः पुरोडाश इत्यर्थे अणि विवक्षिते द्विगुसमासेऽणो लुकि निष्पन्नात्पञ्चकपालशब्दात् `तस्येद'मित्यणि आदिवृद्धौ पाञ्चकपालमित्यत्राऽणोलुङ्न भवति अणो द्विगुनिमित्तत्वाऽभावादिति भावः। पञ्चगर्गरूप्यमिति। पञ्चभ्यो गर्गेभ्य आगतमित्यर्थे `हेतुमनुष्येभ्यः' इति रूप्यप्रत्ययः। `तद्ध#इतार्थ' इति द्विगुसमासनिमित्तत्वेऽपि अजादित्वाऽभावान्न लुगिति भावः। द्वैमित्रिरिति। अत्र `अत इ'ञिति इञोऽपत्यार्थकत्वान्न लुगिति भावः। न च तिस्नो विद्या अधीयानस्तैविद्य इत्यत्राप्यणो लुक् स्यादिति वाच्यं, त्र्यवयवा विद्या त्रिविद्या। शाकपार्थिवादिः। त्रिविद्यामधीते त्रैविद्य इति विग्रहे त्रिविद्याशब्दादणो द्विगुनिमित्तत्वाऽभावात्। प्राग्दीव्यतीयस्येति। किम् ?। पञ्चभ्यः कपालेभ्यो हितं पञ्चकपालीयम्।

तत्त्वबोधिनी

890 द्विगोर्लुगनपत्ये। द्विगोरिति षष्ठी, तदर्थश्च हेतुत्वं, तच्च भाविनोऽप्युपपद्यते, बुद्द्याध्यवसायादित्याशयेनाह–द्विगोर्निमित्तमिति। अजादिरिति। एतच्चोत्तरसूत्रात्, `अचि' इत्यपकर्षाल्लभ्यते, वाग्रहणमनुवर्त्त्य व्यवस्थितविभाषाश्रयणेन वा। प्राग्दीव्यतीयः किम्?। पञ्चम्यः कपालेभ्यो हितं पञ्चकपालीयम्।

Satishji's सूत्र-सूचिः

TBD.