Table of Contents

<<4-2-15 —- 4-2-17>>

4-2-16 संस्कृतं भक्षाः

प्रथमावृत्तिः

TBD.

काशिका

तत्र इति सप्तमीसमर्थात् संस्कृतम् इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यत् संस्कृतं भक्षाः चेत् ते भवन्ति। खरविशदम् अभ्यवहारार्थं भक्षम् इत्युच्यते। सतुत्कर्षाधानम् संस्कारः। भ्राष्ट्रे संस्कृता भक्षाः भ्राष्ट्रा अपूपाः। कालशाः। कौम्भाः। भक्षाः इति किम्? पुष्पपुटे संस्कृतो मालागुणः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1043 सप्तम्यन्तादण् स्यात्संस्कृतेर्ऽथे यत्संस्कृतं भक्षाश्चेत्ते स्युः. भ्राष्ट्रेषु संस्कृता भ्राष्ट्रा यवाः..

बालमनोरमा

1199 संस्कृतं भक्षाः। भक्ष्यन्ते इति भक्षाः, कर्मणि घञ्। तत्रेत्यनुवर्तते। तदाह–सप्तम्यन्तादिति। एकवचनं बहुवचनं च सामान्याभिप्रायं, जात्याख्यायामेकस्मिन्बहुवचन'मित्युक्तेरित्यभिप्रेत्याह–यत्संस्कृतमिति। संस्कारो नाम पाकादिना गुणविशेषाधानम्। अष्टाकपाल इति। `तद्धितार्थ' इति समासः। भक्षा इति किम् ? पुष्पपुटे संस्कृतं भक्षाः' इत्यर्थे यत्स्यादित्यर्थः। उखा पात्रविशेष इति। `पिठरं स्थाल्युखा कुण्ड'मित्यमरः।

तत्त्वबोधिनी

991 अष्टाकपाल इति। `द्विगोर्लुगनपत्ये'इत्यणो लुक्।

Satishji's सूत्र-सूचिः

TBD.