Table of Contents

<<6-1-104 —- 6-1-106>>

6-1-105 दीर्घाज् जसि च

प्रथमावृत्तिः

TBD.

काशिका

दीर्घात् जसि इचि च परतः पूर्वसवर्णदीर्घः न भवति। कुमार्यौ। कुमार्यः। ब्रह्मबन्ध्वौ। ब्रह्मबन्ध्वः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

194 पप्यौ 2. पप्यः. हे पपीः. पपीम्. पपीन्. पप्या. पपीभ्याम् 3. पपीभिः. पप्ये. पपीभ्यः 2. पप्यः 2. पप्योः. दीर्घत्वान्न नुट्, पप्याम्. ङौ तु सवर्णदीर्घः, पपी. पप्योः. पपीषु. एवं वातप्रम्यादयः.. बह्व्यः श्रेयस्यो यस्य स बहुश्रेयसी..

बालमनोरमा

237 दीर्घाज्जसि च। `प्रथमयोः' इत्यतः `पूर्वसवर्ण' इति `नादिची'त्यतो `ने'ति `इची'ति चानुवर्तते। तदाह दीर्घादित्यादिना। नन्विदं सूत्रं व्यर्थं, `नादिची'त्येव सिद्धेरिति शङ्कते-यद्यपीहेति। ननु जसि वि\उfffदापा-असिति स्थिते पूर्वसवर्णदीर्घनिषेधार्थमिदं सूत्रमावश्यकं, तत्र `नादिची'त्यस्याऽप्रवृत्तेरित्यत आह-जसि त्विति। माऽस्तु पूर्वसवर्णदीर्घनिषेधः। पूर्वसवर्णदीर्घे सत्यपि जसि `वि\उfffदापाः' इति सिध्यति। तन्निषेधे सत्यपि `अकः सवर्णे दीर्घः' इति कृते।ञपि `वि\उfffदापाः' इत्येवं रूपं सिध्यति। अतः किं तन्निषेधेनेत्यर्थः। परिहरति–तथापीति। इत्यादीति। आदिना लक्ष्म्यावित्यादिसङ्ग्रहः। तत्र `नादिची'त्यस्याऽप्रसक्त्या तन्निषेध आवश्यक इति भावः। ननु दीर्घाज्जसि चे'ति सूत्रं यदि `गोर्यौ' इत्याद्यर्थमेव, तर्हि ईदन्ताधिकारे गौरीशब्दनिरूपणावसर एव तदुपन्यासो युक्तं इत्यत आह-इहापीति। वि\उfffदापावित्यत्र `नादिची'त्यस्य `दीर्घाज्जसि चे'त्यस्य च प्राप्तौ परत्वेन `दीर्घाज्जसि चे'त्यस्यैवोपन्यासौचित्यादित्यर्थः। `अमि पूर्वः'। वि\उfffदापाम्।

तत्त्वबोधिनी

201 दीर्घाज्जसि च। चकारादिचीत्यनुकृष्यते, नेति चानुवर्तते, तदाह-दीर्घाज्जसि इचि चेति। सूत्रे चकाराऽभावे ह्यस्वाऽकारादिचि दीर्घाकारात्तु जसीति व्यवस्था संभाव्येतेति भावः। इत्याद्यर्थमिति। इति निर्देशादिक्प्रत्याहाराऽच्प्रत्याहारयोरेव निरूढलक्षणेति व्याख्यायतां, तथाच दीर्घस्याऽच्त्वाऽभावाद्गौर्यावित्यादौ पूर्वसवर्णदीर्घो न प्राप्नोतीति किमनेन निषेधसूत्रेणेति चेन्मैवम्, अस्मादेव निषेधाज्ज्ञापकादिगज्भिन्नेष्वपि प्रत्याहरेषु लक्षणा स्वीक्रियते। अन्यथा `गौरी'रित्यादौ शसि परतः पूर्वसवर्णदीर्घो न स्यात्। किंच `उपार्छती'त्यादौ `उरण्रपरः,' `नैषादकर्षुकः' इत्यादौ `इसुसु'गिति ठस्य कादेशः, `अमीषा'मित्यादौ इणः परस्य सस्य च षत्वं न सिध्यतीति दिक्। `प्रथमयोः–' इति सूत्रानन्तरं `दीर्घाच्छसी'त्येव सुवचम्। दीर्घाच्छस्येव पूर्वसवर्णदीर्घ इति तस्यार्थः। एवं च चकारो न कर्तव्यो, नेति च नानुवर्तनीयमिति महल्लाघवमित्येके। `शसि दीर्घादेवे'ति विपरीतनियमवारणाय `नृ?न्पे', `कानाम्रेडिते' इति निर्देशाश्रयणे प्रतिपत्तिगौरवं स्यादिति यतान्यास एव श्रेय इत्यन्ये।

Satishji's सूत्र-सूचिः

118) दीर्घाज्जसि च 6-1-105

वृत्ति: दीर्घाज्जसि इचि च परे न पूर्वसवर्णदीर्घः । The पूर्वसवर्णदीर्घः substitute (ordained by प्रथमयोः पूर्वसवर्णः 6-1-102) shall not take place when the “जस्” affix or a “इच्” letter (a letter belonging to the प्रत्याहार: “इच्”) follows a long vowel.

उदाहरणम् – रमा + औ = रमा + शी 7-1-18 = रमा + ई 1-3-8 = रमे 6-1-87, because पूर्वसवर्णदीर्घः is stopped by 6-1-105