Table of Contents

<<7-1-17 —- 7-1-19>>

7-1-18 औङ आपः

प्रथमावृत्तिः

TBD.

काशिका

आबन्तादङ्गादुत्तरस्य औङः शी इत्ययम् आदेशो भवति। खट्वे तिष्ठतः। खट्वे पश्य। बहुराजे। करीषगन्ध्ये। ङकारः सामान्यग्रहणार्थः, औटो ऽपि ग्रहणं यथा स्यात्। औकारो ऽयं शीविधौ ङिद्गृहीतो ङिच्चास्माकं न अस्ति को ऽयं प्रकारः। सामान्यार्थस् तस्य च असञ्जने ऽस्मिन् ङित्कार्यं ते श्यां प्रसक्तम् स दोषः। ङित्त्वे विद्याद् वर्णनिर्देशमात्रं वर्णे यत् स्यात् तच् च विद्यात् तदादौ। वर्णश्चायम् तेन ङित्त्वे ऽप्यदोषो निर्देशो ऽयं पूर्वसूत्रेण वा स्यात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

217 आबन्तादङ्गात्परस्ययौङः शी स्यात्. औङित्यौकारविभक्तेः संज्ञा. रमे. रमाः..

बालमनोरमा

285 अथ रमा औ इति स्थिते–ओङ आपः। `आप इति पञ्चमी। प्रत्ययग्रहणपरिभाषया आबन्तं विवक्षितम्। `अङ्गस्ये'त्यदिकृतं पञ्चम्या विपरिणम्यते। `औङः' इति षष्ठी। `जसः शी'त्यतः `शीत्यनुवर्तते। तदाह–आबन्तादिति। औङ्शब्दस्याऽप्रसिद्धार्थत्वादाह– औङितीति। संज्ञेति। `प्राचां शास्त्रे स्थिते'ति शेषः। रमे इति। `रमा औ' इति स्थिते शीभावे तस्य स्थानिवत्त्वेन प्रत्ययत्वा`ल्लशक्वतद्धिते' इति शस्येत्संज्ञायां लोपे `आद्गुणः' इति एकारः। `यस्येति चे'ति लोपस्तु न, अभत्वात्। जसि (अकः सवर्णे) इति सवर्णदीर्घं मत्वाह–रमा इति। पूर्वसवर्णदीर्घस्तु न, न भवति, `दीर्घाज्जसि चे'ति निषेधात्। हे रमा स् इति स्थिते।

तत्त्वबोधिनी

247 अथाऽडजन्ताःस स्त्रीलिङ्गाः। रमेति। रमते इति रमा। `रमु क्रीदायाम्'इत्यस्मात्पचाद्यति टाप्। लिङ्गविशिष्टपरभाषया सावदयः। हल्ङ्?यादिलोपःष न चात्राबन्तत्वादेव स्वाद्युत्पत्तिरेस्तु, प्रत्ययान्तस्याऽप्रातिपदिकत्वेऽपि ङ्योपोः पृथग्ग्रहणादिति वाच्यं, ङ्याब्ग्रहणस्यान्यार्थतायाः प्रागेवोक्तत्वात्प्रत्याख्यातत्वाच्च तद्भहणस्यष शी स्यादिति। `जसः शी'त्यतः `शी'त्यनुवर्तत इति भावः।

Satishji's सूत्र-सूचिः

117) औङ आपः 7-1-18

वृत्ति: आबन्तादङ्गात् परस्य औङः शी स्यात् । The affixes “औ” and “औट्” gets “शी” as a substitute when they follow a base ending in an “आप्” affix.

उदाहरणम् – Example under next rule.