Table of Contents

<<4-3-27 —- 4-3-29>>

4-3-28 पूर्वाह्णापराह्णाऽर्द्रामूलप्रदोषावस्कराद् वुन्

प्रथमावृत्तिः

TBD.

काशिका

पूर्वाह्णाऽदिभ्यः शब्देभ्यः वुन् प्रत्ययो भवति तत्र जातः 4-3-25 इत्येतस्मिन् विषये संज्ञायां गम्यमानायाम्। पूर्वाह्णकः। अपराह्णकः। विभाषा पूर्वाह्णापरह्णाभ्याम् 4-3-24 इत्यस्य अपवादः। आर्द्रकः। मूलकः। नक्षत्राणः अपवादः। प्रदोषकः। निशाप्रदोषाभ्यं च 4-3-14 इत्यस्य अपवादः। अवस्करकः। औत्सर्गिकस्याणः 4-1-73 अपवादः। असंज्ञायां तु यथाप्राप्तं ठञादयः एव भवन्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1392 कृतलब्ध। तत्रेत्येवेति। `तत्र जातः' इत्यतस्तत्रेत्येवानुवर्तते। `जात इति तु निवृत्तमित्यर्थः। तथा च कृतो लब्धः क्रीतः कुशलो वेत्यर्थे सप्तम्यन्तादणादयो घादयश्च यथायथं स्युरित्यर्थः। स्नौग्घ्न इति। औत्सर्गिकोऽण्। राष्ट्रे कृतो राष्ट्रिय इत्याद्यप्युदाहार्यम्।

तत्त्वबोधिनी

1093 कृतलब्ध। ननु कृतक्रीत त्वे जातलब्धत्वयोव्र्याप्ये इति किमनयोग्र्रहणेने?। सत्यम्। कृतत्वक्रीतत्वप्रकारकबोधेऽपि प्रत्ययार्थं तद्ग्रहणम्। अत एव जाते लुग्भाजामपि कृते न लुक्।

Satishji's सूत्र-सूचिः

TBD.