Table of Contents

<<4-3-23 —- 4-3-25>>

4-3-24 विभाषा पूर्वाह्णापराह्णाभ्याम्

प्रथमावृत्तिः

TBD.

काशिका

पूर्वाह्णापराह्णाशब्दाभ्यां विभाषा ट्युट्युलौ प्रत्ययौ भवतः, तुट् च तयोरागमः। कालाट् ठञ् 4-3-11 इति ठञि प्राप्ते वचनं, पक्षे सो ऽपि भवति। पूर्वाह्णेतनम्। अपराह्णेतनम्। पौर्वाह्णिकम्। आपराह्णिकम्। घकालतनेषु कालनाम्नः 6-3-17 इति सप्तम्या अलुक्। यदा तु न सप्तमी समर्थविभक्तिः पूर्वाह्णः सोढः अस्य इति तदा पूर्वाह्णतनः इति भवितव्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1372 विभाषा पूर्वाह्णा। पक्षे ठञिति। तथा सति न तुट्, तस्य ठ्युठ्युल्भ्यां संनियोगशिष्टत्वादिति भावः। तदेवं `राष्ट्रावारे'त्यारभ्य एतदन्तैः सूत्रैः शाष्ट्रादिप्रकृतिविशेषेभ्यो घादयः प्रत्ययविशेषा अनुक्रान्ताः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.