Table of Contents

<<4-3-26 —- 4-3-28>>

4-3-27 संज्ञायां शरदो वुञ्

प्रथमावृत्तिः

TBD.

काशिका

शरच्छब्दात् सप्तमीसमर्थाज् जातः इत्येतस्मिन्नर्थे वुञ् प्रत्ययो भवति ऋत्वणः अपवादः, समुदायेन चेत् संज्ञा गम्यते। शारदका दर्भाः। शारदका मुद्गाः। दर्भविशेषस्य मुद्गविशेषस्य च इयं संज्ञा। संज्ञायाम् इति किम्? शारदं सस्यम्। संज्ञाधिकारं केचित् कृतलब्धक्रीतकुशलाः 4-3-38 इति यावदनुवर्तयन्ति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1375 संज्ञायां शरदो वुञ्। संज्ञायामित्येतदत् `कृतलब्धक्रीते'त्येतत्पर्यन्तमनुवर्तत इति केचिदिति वृत्तिकृतः।

तत्त्वबोधिनी

1081 संज्ञायां शरदः। समुदायेन चेत्संज्ञा गम्यत इत्यर्थः। संज्ञायां किम्?। शारदं सस्यम्। `संज्ञाया'मित्येतत् `कृतलब्धे'त्येतत्पर्यन्तं केचिदनुवर्तयन्तीति वृत्तिकृत्।

Satishji's सूत्र-सूचिः

TBD.