Table of Contents

<<4-1-2 —- 4-1-4>>

4-1-3 स्त्रियाम्

प्रथमावृत्तिः

TBD.

काशिका

अधिकारो ऽयम्। यदिति ऊर्ध्वम् अनुक्रमिष्यामः स्त्रियाम् इत्येवं तद् वेदितव्यम्। ङ्याप्प्रातिपदिकात् 4-1-1 इति सर्वाधिकारे ऽपि प्रातिपदिकमात्रम् अत्र प्रकरणे सम्बध्यते, ण्यापोरनेन एव विधानात्। स्त्रियाम् इत्युच्यते। केयं स्त्री नाम? सामान्यविशेषाः स्त्रीत्वादयो गोत्वादय इव बहुप्रकारा व्यक्तयः। क्वचिदाश्रयविशेषाभावातुपदेशव्यङ्गया एव भवन्ति, यथा ब्राह्मणत्वादयः। स्त्रीत्वं च प्रत्ययार्थः। प्रकृत्यर्थविशेषणं च इत्युभयथा अपि प्रयुज्यते, स्त्रियाम् अभिधेयायां स्त्रियां वा यत् प्रातिपदिकं वर्तते इति। वक्ष्यति

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

1251 अधिकारोऽयम्. समर्थानामिति यावत्..

बालमनोरमा

447 अथ स्त्रीप्रत्ययाः। तदेवं `ङ्याप्प्रातिपदिका'दित्यधिकृत्य `स्वौजसमौ'डिति सूत्रं सप्रपञ्चं निरूप्य तदुत्तरम-नुक्रान्तान्स्त्रीप्रत्ययान्निरूपयितुमाह- स्त्रियाम्। अधिकारोऽयमिति। `अजाद्यतष्टाबित्याद्युत्तरसूत्रेष्वनुवृत्त्यर्थमिदं सूत्रं, नतु स्वतन्त्रविधिरित्यर्थः। कियत्पर्यन्तमयमधिकार इत्यत आह–समर्थेति। `याव'दित्यवधौ। `समर्थानां प्रथमा'-दित्यतः प्रागित्यर्थः। अत्रेदमवधेयम्। `स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः। उभयोरन्तरं यच्च तद भावे नपुंसकम्।' इति लक्षणलक्षितमवयवसंस्थानविशेषात्मकं लौकिकं स्त्रीपुंसयोर्लिङ्गम्। तदभावे=तयोरुभयोरभावे सति, यदुभयोरन्तरं=सदृशं तन्नपुंसकमित्यर्थः। तदिदं लौकिकं लिङ्गमस्मिन् शास्त्रे नोपयुज्यते, तस्याऽचेतने खट्वामालादौ बाधात्स्त्रीप्रत्ययानापत्तेः। दारानित्यादौ `तस्माच्छसो नः पुंसी'ति नत्वानापत्तेश्च। किंतु सत्त्वरजस्तमसां प्राकृतगुणानां वृद्धिः–पुंस्त्वम्, अपचयः–स्त्रीत्वम्, स्थितिमात्रं नपुंसकत्वम्। अत एव ऊत्कार्षापकर्षंसत्वेऽपि स्थितिमात्रमादाय `सामान्ये नपुंसक'मिति प्रवादः। उत्कर्षाऽपकर्षसाम्यात्मकावस्थात्रयसाधारणस्थितिमात्रविवक्षायां नपुंसकं भवतीति तदर्थः। ईदृशमवस्थात्रयं केवलान्वयि। `अयं पदार्थः,' `इयं व्यक्तिः', `इदं वस्तु' इति व्यवहारस्य सार्वत्रिकत्वात्। तच्चेदं लिङ्गमर्थनिष्ठमेव। तदुक्तं भाष्ये– `एकार्थे शब्दान्यत्वाद्दृष्टं लिङ्गान्यत्वमवयवान्यत्वाच्चे'ति। एकस्मिन्नेवार्थे `पुष्यः' `तारका' `नक्षत्र'मिति शब्दनानात्वदर्शनात्, कुटीकुटीरादौ रेफाद्यवयवोपजनने लिङ्गभेददर्शनाच्च स्तनकेशाद्यतिरिक्तमेव लिङ्गमित्यर्थ इति कैयटः। `पुलिङ्गः शब्द' इत्यादिव्यवहारस्तु वाच्यवाचकयोरभेदोपचारद्बोध्यः। नच उपचयादिधर्माणां विरुद्धत्वादेकत्र समावेशाऽयोगादेकस्य द्वित्रिलिङ्गताऽनापत्तिरिति वाच्यम्, एकैकस्मिन्वस्तुनि क्षणभेदेन त्रयाणां धर्माणामपि समावेशोपपत्तेः। उक्तंच भाष्ये-`कश्चिदपि सत्त्वादिधर्म क्वचिन्मुहुर्तमपि नावतिष्ठते, यावदनेन वर्द्धितव्यमपायेन वा युज्यते' इति नचैवं सति युगपद्द्वित्रिलिङ्गत्वानापत्तिरिति वाच्यम्, नहि व्यवहारे स्वसमकालिकपदार्थसत्ता प्रयोजिका। तथा सति भूतभविष्यद्व्यवहारोच्छेदापातात्। तत्र कश्चिच्छब्द एकलिङ्गविशिष्ट एवार्थे प्रयोज्यः, कश्चित्तु द्विलिङ्गे, कश्चित्तु त्रिलिङ्गे इत्येतत्तु लिङ्गानुशासनशास्त्रादवगन्तव्यम्। एषां पुंस्त्रीनपुंसकशब्दानां वृद्ध्यादिशब्दवदस्मिन् शास्त्रे संकेतश्च लिङ्गानुशासनत एव ज्ञेयः। उक्तं च भाष्ये-अवश्यं तावत्कश्चित्स्वकृतान्त आस्थेयः' इति वैयकरणसिद्धान्त इत्यर्थः। `कृतान्तौ यमसिद्धान्तौ' इत्यमरः। तत्र टिघुभादिसंज्ञावल्लघुसंज्ञामकृत्वा महासंज्ञाकरणसामथ्र्यात्सति संभवे `स्तनकेशवती'त्यादिलौकिकं लिङ्गमप्यत्राश्रीयते। अन्यथा `पशुना यजेते 'त्यत्र स्त्रीव्यक्तावपि सत्त्वाद्युपचयात्मकपुंस्त्वाद्यनपायादाङोनाऽस्त्रियामिति नाभावस्याऽविरोधात्स्त्रीपशुरप्यालभ्येत। तदेतच्चतुर्थस्य प्रथमपादे `तथालिङ्ग'मित्यधिकरणे अद्वरमीमांसाकुतूहरवृत्ताववोचाम। त्रिविधमपि एतल्लिङ्गं जातिव्यक्तिवत्प्रातिपदिकार्थ एव। प्रत्ययार्थत्वे प्राधान्यापत्तौ अजा, खट्वा इत्यादौ स्त्रीत्वविशिष्टतादात्म्यावच्छिन्नाऽजादिबोधोऽनुभवसिद्धो विरुध्येत। किंच मातृदुहितृस्वसृगवादिशब्देषु विनापि टाबादिप्रत्ययं स्त्रीत्वविशिष्टार्थस्य बोधात्प्रातिपदिकस्य तत्र शक्त्यावश्यकत्वे टाबादीनामपि शक्तिकल्पने गौरवम्। `ऋकारान्तामातृदुहितृस्वसृयातृननान्दरः, प्रावृड्?विप्रुड\उfffद्क्तिविषः' इत्याद#इलिङ्गानुशासनसूत्राण्यपि प्रकृतिविषयाण्येव दृश्यन्ते। अत एव च `कृदिकारादक्तिनः' इत्यत्र `अक्तिन' इत्यतदर्थवत्। अन्यथा क्तिनैव स्त्रीत्वस्योक्तत्वान्ङीपोऽप्राप्तेस्तद्वैयथ्र्यं स्पष्टमेव। न चैवमपि प्रकृत्यैव स्त्रीत्वस्योक्तत्वात्कथं टाबादय #इति वाच्यं, द्वावित्यादिवत्प्रकृत्युक्तस्याऽव्यावर्तकत्वात्। अन्यथा टाबादिविधिवैयथ्र्यात्। तथा च स्त्रीत्वमिह प्रातिपदिकस्यैव वाच्यं। टाबादयस्तु तद्द्योतकाः। तथाच टाबादिषु सत्सु अवश्यं स्त्रीत्वबोध इति नियमः, नतु टाबादिषु सत्स्वेवेति नियम इति।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.