Table of Contents

<<3-4-114 —- 3-4-116>>

3-4-115 लिट् च

प्रथमावृत्तिः

TBD.

काशिका

लिडादेशः तिङार्धधातुकसंज्ञो भवति। सार्वधातुकसंज्ञाया अपवादः। पेचिथ। शेकिथ। जग्ले। मम्ले। ननु च एकसंज्ञाधिकारादन्यत्र समावेशो भवति? सत्यम् एतत्। इह तु एवकारो ऽनुवर्तते, स नियमं करिस्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

402 लिडादेशस्तिङ्ङार्धधातुकसंज्ञः..

बालमनोरमा

22 लिट् च। `लि'डिति लुप्तस्थानषष्ठ\उfffद्न्तम्। `तिङ्?शित्सार्वधातुक'मित्यस्मात्तिङित्यनुवर्तते। `आद्र्धधातुकं शेष' इत्यस्माद्र्धधातुकमिति। तदाह–लिडादेशस्तिङिति। एकसंज्ञाधिकारबहिर्भूतत्वात्सार्वधातुकसंज्ञाया अपि समावेशे प्राप्ते आह– आद्र्धधातुकसंज्ञ एवेति। `लङः शाकटायनस्यैवे'ति सूत्रादेवकारानुवृत्तेरिति भावः। तेनेति। सार्वधातुकतवाऽभावेन तन्निमित्ताः शप्श्यनादयो न भवन्तीत्यर्थः।

तत्त्वबोधिनी

18 आद्र्धधातुकसंज्ञ एवेति। `लङः शाकटायनस्ये'ति सूत्रादेवकारोऽनुवर्तत इति भावः।

Satishji's सूत्र-सूचिः

TBD.