Table of Contents

<<3-2-76 —- 3-2-78>>

3-2-77 स्थः क च

प्रथमावृत्तिः

TBD.

काशिका

सुपि उपसर्गे ऽपि इति च वर्तते। स्था इत्येतस्माद् धातोः सुपि उपपदे कप्रत्ययो भवति, क्विप् च। किमर्थम् इदम् उच्यते, यवता सुपि स्थः 3-2-4 इति कः सिद्ध एव, अन्येभ्यो ऽपि दृश्यते 3-2-178 इति क्विप्? बाधकबाधनार्थं पुनर् वचनम्। शमि धातोः संज्ञायाम् 3-2-14 अचं बाधते शंस्थः। शंस्थाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

797 स्थः क च। `के'त्यविभक्तिकम्। स्थ इति पञ्यम्यन्तम्।चात् क्विबिति। उपसर्गे अनुपसर्गे च सुबन्धे उपपदे स्थाधातोः कप्रत्ययः स्यात्, क्विप् चेति फलितम्। शंस्थ इति। शमित्यव्ययं सुखे। तत्पूर्वात्स्थाधातोः कप्रत्यये आतो लोपः। शंस्था इति, - क्विपि रूपम्।सुखं स्थापयतीत्यर्थः। तिष्टितरन्तर्भावितण्यर्थः। `शंस्थाट इति भाष्यप्रयोगात्पृषोदरादित्वाच्च `घुमास्थे'ति ईत्त्वं न। केचित्तु `क चे'ति चकाराद्विजेवानुकृष्यते इत्याहुः। ननु `सुपि स्थः' इति कप्रत्यये `क्विप् चे'ति क्विपि च सिद्धे किमर्थमिदमित्यत आह– शमिधातोरित्यचमिति। अन्यथा धातुग्रहणसामथ्र्यात्कृञो हेत्वादिषु ट क्विपं च अच्प्रत्ययो बाधेतेति भावः।

तत्त्वबोधिनी

660 स्थः क च। शंस्था इति। क्विपि लुप्ते `घुमास्थे' ति ईत्वं न, स्थानिवद्भावस्य अनल्विधादिति निषेधात्। प्रत्ययलक्षणसूत्रं तु प्रत्ययस्याऽसाधारणं रूपं यत्राश्रीयते तत्रैवेति नियमार्थमिति निष्कर्षात्। यत्तु कैयटेनोक्तम्- - `ईत्वमवकरादावादविति वचनाद्भाष्यकारीयोदाहणप्रामाण्याद्वा प्रत्ययलक्षणेन ईत्वं ने'ति, तत् `अतृणेडित्यादिसिद्धये प्रत्ययप्राधान्ये अल्विध्यर्थं प्रत्ययलक्षणसूत्र'मिति पक्षमभिप्रेत्य। तत्राप्यवकारादाविति वचनस्वीकारे सुधीवेति न सिध्येदित्यपरितोषेण पक्षान्तरस्वीकार इति बोद्ध्यम्। ननु `नियमार्थ'मिति निष्कर्ष पक्षे तु प्रागुक्तं मत्रशीरित्यत्र कथमित्त्वं भवेदिति चेत्। अत्राहुः- - शास इदिति। ततः – अङि। नियमार्थमिदम्। अजादौ चेदित्त्वं स्यादड\उfffदेव नान्यत्रेति हल्ग्रहणं मास्त्विति ज्ञेयमिति। नचैवमपि हलादौ पिति सार्वधातुके तृणह इमो विधानादतृणेडित्यादि तु नियमपक्षे न सिध्यतीत्यल्विध्यर्थमिति पक्षोऽपि स्वीकर्य इति वाच्यम्, `उतो वृद्धि'रिति सूत्राद्धल्ग्रहणमनुवर्त्त्य तृणहानीत्यत्राऽनिष्टवारणाय `नाभ्यस्तस्याची'ति सूत्रादचि नेत्यनुवर्त्त्य व्याख्यानात्। एतच्च रुधादिगण एव व्याख्याताम्। स्यादेतत्– `सुपि स्थः' `क्विप् चे'ति सूत्राभ्यां कक्विपौ सिद्धौ। शमीत्यादि। धातुग्रहणसामथ्र्याद्धिधातुमात्राद्भवन्नच्?प्रत्ययो हेत्वादिषु कृञष्टं यथा बाधते तथा तिष्ठतेः कक्विपावपि बाधेतेति `स्थः क चे'त्यारम्भ इति भावः। नन्वेवं `शमि धातो'रित्यस्याऽनन्तरं `स्थः क चे'ति सूत्र्यतां, चकारेणाऽचि समुच्चिते सवर्णदीर्घे शंस्था इति भविष्यत, एवं चोत्सर्गापवादयोः समानदेशतया संदर्भशुद्धरपि लभ्यते, इत्त्वाऽभावार्थं चन यतनीयमिति महल्लाघवमिति चेत्। अत्राहुः– अशं स्था इत्यत्र `अच्कावशक्तौ' इति सूत्रेणोत्तरपदमन्तोदात्तं स्यात्। `कृद्ग्रहणे गतिकारकपूर्वस्यापी'ति शंस्थाशब्दस्याजन्तत्वात्। क्विबन्तेन नञ्समासे नञ्पूर्वपदप्रकृतिस्वरः सिध्यतीति।

Satishji's सूत्र-सूचिः

TBD.