TBD.
सर्वधातुभ्यः सोपपदेभ्यो निरुपपदेभ्यश्च छन्दसि भाषायां च क्विप् प्रत्ययो भवति। उखायाः स्रंसते उखास्रत्। पर्णध्वत्। वाहात् भ्रश्यति, वाहाभ्रट्। अन्येषम् अपि दृश्यते 6-3-137 इति दीर्घः।
TBD.
805 अयमपि दृश्यते. उखास्रत्. पर्णध्वत्. बाहभ्रट्..
793 क्विप् च। अयमपीति। सर्वधातुभ्यः सोपपदेभ्यो निरुपपदेभ्यश्च छन्दसि लोके च क्विप् दृश्यते इत्यर्थः. नन्वनेनैव सिद्धे `सत्सूद्विषे'ति सूत्रं व्यर्थमित्यत आह– सत्सूद्विषेति। `सत्सूद्विषे'ति सूत्रं तु `क्विप् चे'त्यस्यैव प्रपञ्च इत्यर्थः। उखारुआदिति। उखायाः रुआंसत इति विग्रहः। रुआंसेः क्विप्, `अनिदिता'मिति नलोपः, `वसुरुआंसु' इति दत्वम्। एवं पर्णध्वत्?। पर्णात् द्वंसत इति विग्रहः। वाहभ्रडिति। वाहात् भ्रश्यति इति विग्रहः। व्रश्चादिना षः।
658 वाहभ्रडिति। वाहाद\उfffदाआद्भ्रश्यतीति विग्रहः। वृत्तौ तु वहाभ्रडिति पाठः। वहः = स्कन्धः, `अन्येषामपि दृश्यते' इति पूर्वपदान्तस्य दीर्घ इति हरदत्तः।
वृत्तिः अयमपि दृश्यते । (In addition to the affixes mentioned in the सूत्रम् 3-2-74) the affix “क्विँप्” may also be used (following any verbal root with or without the presence of a उपपदम्)।
उदाहरणम् – देहं बिभर्तीति देहभृत्।
देह + ङस् (ref: 2-3-65) + भृ + क्विँप् 3-2-76
Note: The term सुपि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-76 from the सूत्रम् 3-2-4) ends in the seventh (locative) case. Hence “देह + ङस्” gets the उपपद-सञ्ज्ञा here by 3-1-92
= देह ङस् + भृ + व् 1-3-2, 1-3-3, 1-3-8, 1-3-9
= देह ङस् + भृ 1-2-41, 6-1-67. Note: The affix क्विँप् is a कित्। This enables 1-1-5 to stop 7-3-84.
= देह ङस् + भृ तुँक् 1-1-62, 6-1-71, 1-1-46
= देह ङस् + भृत् 1-3-2, 1-3-3, 1-3-9
Now we form the compound between “देह ङस्” (which is the उपपदम्) and “भृत्” using the सूत्रम् 2-2-19. Note: Here “देह ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, “देह ङस्” is placed in the prior position as per 2-2-30
“देह ङस् + भृत्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= देहभृत् 2-4-71