TBD.
शम्युपपदे धातुमात्रात् संज्ञायां विषये अच्प्रत्ययओ भवति। शङ्करः। शंभवः। शंवदः। धातुग्रहणं किं यावता धातोः इति वर्तत एव? शमिसंज्ञायाम् इति सिद्धे धातुग्रहणं कृञो हेत्वादिषु टप्रतिषेधार्थम्। शङ्करा नाम परिव्राजिका। शङ्करा नाम शकुनिका। तच्छीला च।
TBD.
–
743 शिमि दातोः। `शमी'ति सप्तम्यन्तम्। `श' मिति सुखार्थकमव्ययम्। तस्मिन्नुपपदे दातोरच् स्यात्संज्ञायाम्। ननु धातुग्रहणं व्यर्थम्, न च रमिजपोरननुवृत्त्यर्थं तदिति वाच्यम्, अस्वरितत्वादेव तदननुवृत्तिसिद्धेरित्यत आह– पुनर्धातुग्रहणमिति। `कृञो हेतुताच्छील्यानुलोम्येषु' इति टप्रत्ययोऽच्प्रत्ययबाधको वक्ष्यते, तद्बाधनार्थमित्यर्थः।
620 शमि धातोः। शमि उपपदे धातुमात्रात्संज्ञायामच् स्यात्। पुनर्धातुग्रहणमिति। असति धातुग्रहणे `शमि संज्ञाया'मित्यस्यावकाशः, –संभवः। शंवदः। `कृञो हेतुताच्छील्ये'त्यस्यावकाशः–`श्राद्धकरः'। `शङ्कर' इत्यत्रोभयप्रसङ्गे परत्वाट्ट एव स्यात्। धातुग्रहणे कृते तु तत्सामथ्र्यादजेव भवति. तदाह–शङ्करा नामेत्यादि। अनधिकरणार्थमुपसङ्ख्यानमिति दर्शयति–
TBD.