TBD.
अन्येभ्यो ऽपि धातुभ्यः ताच्छीलिकेषु क्विप् प्रत्ययो दृश्यते। युक्। छित्। भित्। दृशिग्रहणं विध्यन्तरौपसङ्ग्रहार्थम्। क्वचिद् दीर्घः, क्वचिद् द्विर्वचनम्, क्वचित् सम्प्रसारणम्। तथा च आह क्विब्वचिप्रच्छायतस्तुकटप्रुजुश्रीणां दीर्घो ऽसंप्रसारणं च। वाक्। शब्दप्राट्। आयतस्तूः। कटप्रूः। जूः। श्रीः। जुग्रहनेन अत्र न अर्थः, भ्राजादि सूत्र एव गृहीतत्वात्। द्युतिगमिजुहोतीनां द्वे च। दिद्युत्। जगत्। जुहोतेर् दीर्घश्च। जुहूः। दृ\उ0304 भ्ये इत्यस्य ह्रस्वश्च द्वे च। ददृत्। ध्यायतेः सम्प्रसारणं च। धीः।
TBD.
–
960 अन्येभ्योऽपि। क्विबिति। शेषपूरणमिदम्। `भ्राजभासे'त्यादिसूत्रोपात्तापेक्षया अन्येभ्योऽपि धातुभ्यस्तच्छीलादिषु कर्तृषु क्विप् दृश्यते इत्यर्थः। विध्यन्तरेति। विधीयते इति विधिः = कार्यं। कार्यान्तरोपसङ्ग्रहार्थमित्यर्थः। तदेव दर्शयति– क्वचिद्दीर्घ इत्यादि। कक्विब्वचीत्यादिनेति। `क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसंप्रसारणं चे'त्यौणादिकसूत्रेणेत्यर्थः। तृना बाधा मा भूदिति। वासरूपविधिस्तु ताच्छीलिकेषु नेति भावः। वागिति। वचधातोः क्विप्, वचनादुपधाया दीर्घः, `वचिस्वपी'ति संप्रसारणाऽभावश्च। एवं कटप्रूरित्यत्र दीर्घः। प्राडिति। वचनान्न संप्रसारणम्। जुरुक्त इति। `भ्राजभासेत्यत्रे'ति शेषः। अतोऽत्र तद्ग्रहमं मा?सत्विति भावः। श्रीरिति। श्रिञः क्विपि दीर्घः। द्युतीति। `द्युतिगमिजुहोत्यादिनां द्वित्वं क्विप्चे'ति वाच्यमित्यर्थः। `पूर्वोऽभ्यासः' इत्यतर् षाष्ठद्विर्वचन एव पूर्वखण्डस्याऽभ्याससंज्ञावचनादाह– दृशिग्रहणादिति। `अन्येब्योऽपि दृश्यते' इत्यत्रेत्यर्थः। ततश्चाऽभ्यासकार्यं हालदिशेषादीति भावः। दिद्युदिति। `द्युतिस्वाप्यो'रिति संप्रसारणम्। जगदिति। गमेः क्विप् `गमः क्वौ' इत#इ मलोपे तुक्। जुहोतेर्दीर्घश्चेति। वार्तिकमिदम्। चात्क्विब्द्वित्वे। ह्यस्वश्चेति। वार्तिकमिदम्। ददृदिति। ह्यस्वे कृते तुक्। ध्यायते। वार्तिकमिदम्। चात्क्विप्। धीरिति। ध्यैधातोः क्वनिपि संप्रासरणे पूर्वरूपे `हलः' इति दीर्घ इति भावः। अत्र `ध्यायतेः संप्रसारमं चे'त्युणादिषु पठितत्वादिदं वार्तिकं माऽस्त्वित्याहुः। वस्तुतस्तु उणादिसूत्राणि न पाणिनीयानि किन्तु ऋष्यन्तरप्रणीतानीति वक्ष्यते अतो न पौरनुक्त्यशङ्का।
–
TBD.