TBD.
अजातिवाचिनि सुबन्त उपपदे ताच्छील्ये गम्यमाने धातोः णिनिः प्रत्ययो भवति। उष्णभोजी। शीतभोजी। अजातौ इति किम्? ब्राह्मणानामन्त्रयिता। ताछ्हील्ये इति किम्? उष्णं भुङ्क्ते कदाचित्। सुपि इति वर्तमाने पुनः सुब्ग्रहणम् उपसर्गनिवृत्त्यर्थम्। उत्प्रतिभ्याम् आङि सर्तेरुपसङ्ख्यानम्। उदासारिण्यः। प्रत्यासारिण्यः। साधुकारिणि च। सधुकारी। साधुदायी। ब्रह्मणि वदः। ब्रह्मवादिनो वदन्ति।
TBD.
806 अजात्यर्थे सुपि धातोर्णिनिस्ताच्छील्ये द्योत्ये. उष्णभोजी..
798 सुप्यजातौ। `सुपि स्थः' इत्यतः सुपीत्यनुवृत्तौ पुनः सुब्ग्रहणमुपसर्गेऽपि विधानार्थमम्?। अन्यथा `आतोऽनुपसर्गे' इत्यतोऽनुपसर्गे इत्यनुवर्तेत। तद्ध्वनयन्नुदाहरति– उष्णभोजीति। उष्णभोजनशील इत्यर्थः। उपसर्गभिन्न एवेति। अनुपसर्ग इत्यनुवर्तते। सुब्ग्रहणं तु `सत्सूद्विषे'ति सूत्रादुपसर्गेऽपीत्यनुवृत्तिनिवृत्तये इति भावः। उपसर्गभिन्न एवेति। अनुपसर्ग इत्यनुवर्तते। सुब्ग्रहणं तु `सत्सूद्विषे'ति सूत्रादुपसर्गेऽपीत्यनुवृत्तये इति भावः। उत्प्रतिभ्यामिति। उत्प्रतिभ्यां परे आङि प्रयुज्यमाने सति तत्पूर्वात्सर्तेर्णिनेरुपसङ्ख्यानमिति तदर्थः। उदासारिणी प्रत्यासारिणीत्युदाहरणम्। भाष्यविरोधादिति। सुब्ग्रहणमुपसर्गग्रहणाऽनुवृत्तिनिवृत्त्यर्थम्, उपसर्गे अनुपसर्गे च सुबन्ते उपपदे धातोर्णिनिरित्येव भाष्ये उदाह्मतत्वादिति भावः। तथा च `उत्प्रतिभ्यामाङि सत्र्ते'रिति वचं नादर्तव्यम्। भाष्ये तत्पाठस्तु प्रक्षिप्त एवेति भावः। अत एव `अनुगादिनष्ठ' गिति सूत्रप्रयोगश्च सङ्गच्छते इति ज्ञेयम्। `उपसर्गभिन्न एव सुपि णिनि'रिति मतं शिष्टप्रयोगविरुद्धं चेत्याहु—- प्रसिद्धश्चोपसर्गेऽपि णिनिरिति। `इत्यादा'वित्यत्रान्वयः। साधुकारिणीति। कृञ्ग्रहणं सर्वधातूपलक्षणम्। साधुकारीत्यात्युदाहरणात्। ब्राहृणि वद इति। `णिनेरुपसङ्ख्यान'मिति शेषः। `णिनेरुपसङ्ख्यान'मिति शेषः। ननु `सुप्यजातौ' इत्येव सिद्धे किमर्थमिदं वार्तिकमित्यत आह– अताच्छील्यार्थमिति। साधुदायीति। आतो युक्। ब्राहृवादीति। ब्राहृ - वेदः।
661 उष्णभोजीति। उष्णं भोक्तुं शीलमस्य। आमन्त्रयितेति। मत्रि गुप्तपरिभाषणे, चुरादिराङ्पूर्वः। इदित्त्वान्नुम्, ताच्छील्यस्य विवक्षितत्वातृ?न्। अतएव `न लोके'ति निषेधात् `ब्राआहृणा'नित्यत्र कर्मणि षष्ठी न कृता। उपसर्गभिन्न एवेति। `सत्सूद्विषे'ति सूत्रे `उपसर्गेऽपी'त्युक्तत्वादुपसर्गभिन्नस्यैव सुपो लाभायाऽस्मिन्सूत्रे पुनः सुब्ग्रहणं कृतमिति भावः। भाष्यविरोधादिति। उक्तं च भाष्ये– `सुबिति वर्तमाने पुनः सुब्गर्हणं किमर्थमनुपसर्ग इत्यव तदभूत्, इदं तु सुब्मात्रे यथा स्यादुदासारिण्यः प्रत्यासारिण्य' इति। अस्यायमाशयः– - `सत्सूद्विषे' ति सूत्रे `सुपि स्थः' इत्यतः सुपीत्यनुवर्तते, तच्चौपसर्गेतरपरम्, उपसर्गेऽपीति पृथगुक्तेः। तदिहानुवर्तमानमर्थाधिकारादुपसर्गेतरपरमेव स्यादिति। निष्कर्षे तु मा भूदिह सुब्वचनग्रहणम्, उपसर्गेऽपीत्यं शस्याप्यनुवृत्त्या निर्वाहात्। सर्वथापि सुब्मात्रे उपपदे णिनिर्नत्वनुपसर्ग एवेति सिद्धान्तः। एतच्च प्रायुङ्क्त- - लिङ्गशेषविधिव्र्यापी विशेषैर्यद्यबाधितः' इ [ ती] ति दिक्। साधुकारिण्युपसङ्ख्यानम्। साधुकारिणीति। एतच्च ज्ञापकसिद्धम्। `आ क्वे'रिति सूत्रे हि तच्चीलात्पृथक् साधुकारी गृह्रते, तच्च ताच्छील्यं विनापि णिनौ सत्येव सङ्गच्छते। अताच्छील्यार्थमिति। एतच्च कैयटहरदत्तादिग्रन्थे स्पष्टम्। यत्तु भट्टवार्तिके ब्राहृवादिशब्दस्य तच्छीलतद्धर्मतत्साधुकारिपरतया व्याख्यानं कृतम्। `आ क्वे'रित्यधिकारे तु ब्राहृणि वदेर्णिनिविधायकं वचनं नास्त्येवेति कथमिदं सङ्गच्छेतेति चेत्, अत्राहुः– भट्टापादानामयमाशयः– `सुप्यजातौ' इति सूत्रेण ताच्छील्ये णिनिः। उपसङ्ख्यानेन ज्ञापकेन वा साधुकारिणि णिनिः। `आवश्यकाधमण्र्ययोर्णिनि'रित्यावश्यके णिनिस्तु तद्धर्मे पर्यवस्यति न त्विह `आ क्वेट रिति सूत्रस्य व्यापारोऽस्तीति। ननु ब्राहृवादिनो वदन्ति इत्यत्र ब्राहृ वेद इति ब्राहृशब्दस्यापि जातिवाचकत्वात्कथमिह ताच्छील्ये णिनिरिति समर्थनमितिचेत्। अत्र नव्याः– `सुप्यजातौ' इत्यत्र प्राणिजातिरेव पर्युदस्यते, ताच्छील्यसमभिव्याहारात्, `ब्राआहृणानामन्त्रयिते'प्रत्युदाहरणानुगुण्याच्चेति न काप्यनुपपत्तिरिति।
वृत्तिः अजात्यर्थे सुपि धातोर्णिनिस्ताच्छील्ये द्योत्ये । When in composition with a सुबन्तं पदम् (a पदम् which ends in a सुँप् affix) which does not denote a class/genus, a verbal root may take the affix “णिनिँ” to express the meaning of a habitual/natural action.
उदाहरणम् – उष्णं भुङ्क्ते तच्छील: = उष्णभोजी।
उष्ण + ङस् (ref: 2-3-65) + भुज् + णिनिँ 3-2-78
Note: In the सूत्रम् 3-2-78, the term सुपि ends in the seventh (locative) case. Hence “उष्ण + ङस्” gets the उपपद-सञ्ज्ञा here by 3-1-92
= उष्ण ङस् + भुज् + इन् 1-3-2, 1-3-7, 1-3-9
= उष्ण ङस् + भोज् + इन् 3-4-114, 7-3-86
= उष्ण ङस् + भोजिन्
Now we form the compound between “उष्ण ङस्” (which is the उपपदम्) and “भोजिन्” using the सूत्रम् 2-2-19. Note: Here “उष्ण ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, “उष्ण ङस्” is placed in the prior position as per 2-2-30
“उष्ण ङस् + भोजिन्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= उष्णभोजिन् 2-4-71
उष्णभोजिन् + सुँ 4-1-2
= उष्णभोजिन् + स् 1-3-2, 1-3-9
= उष्णभोजीन् + स् 6-4-13
= उष्णभोजीन् 1-2-41, 6-1-68. Now उष्णभोजीन् gets the पद-सञ्ज्ञा by 1-4-14 with the help of 1-1-62.
= उष्णभोजी 8-2-7
उपसर्गेऽपि णिनिँ:।
उदाहरणम् – अनुयाति तच्छील: = अनुयायी।
अनु + या + णिनिँ 3-2-78
= अनु + या + इन् 1-3-2, 1-3-7, 1-3-9
= अनु + या युक् + इन् 7-3-33, 1-1-46
= अनु + या य् + इन् 1-3-3, 1-3-9. The उकार: in युक् is उच्चारणार्थ:।
= अनु + यायिन्
Now we form the compound between “अनु” (which is the उपपदम्) and “यायिन्” using the सूत्रम् 2-2-19. Note: Here “अनु” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, “अनु” is placed in the prior position as per 2-2-30
“अनु + यायिन्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= अनुयायिन् 2-4-71
अनुयायिन् + सुँ 4-1-2
= अनुयायिन् + स् 1-3-2, 1-3-9
= अनुयायीन् + स् 6-4-13
= अनुयायीन् 1-2-41, 6-1-68. Now उष्णभोजीन् gets the पद-सञ्ज्ञा by 1-4-14 with the help of 1-1-62.
= अनुयायी 8-2-7