TBD.
सुपि इत्यनुवर्तते। कर्मग्रहणं तु स्पृशो ऽनुदके क्विन् 3-2-58 इत्यतः प्रभृति न व्याप्रियते। सदादिभ्यः धातुभ्यः सुबन्ते उपपदे उपसर्गे ऽपि अनुपसर्गे ऽपि क्विप् प्रत्ययो भवति। उपसर्गग्रहणम् ज्ञापनार्थम्, अन्यत्र सुब्ग्रहणे उपसर्गग्रहणं न भवति इति, वदः सुपि क्यप् च 3-1-106 इति। सू इति द्विषा साहचर्यात् सूतेः आदादिकस्य ग्रहणं, न सुवतेः तौदादिकस्य। युजिर् योगे, युज समाधौ, द्वयोरपि ग्रहणम्। विद ज्ञाने, विद सत्तायाम्, विद विचारणे, त्रयाणाम् अपि ग्रहणम्। न लाभार्थस्य विदेः, अकारस्य विवक्षतत्वात्। सद् शुचिषत्। अन्तरिक्षसत्। उपसत्। सू अण्डसूः। शतसूः। प्रसूः। द्विष मित्रद्विट्। प्रद्विट्। द्रुह मित्रध्रुक्। प्रध्रुक्। दुह गोधुक्। प्रधुक्। युज अश्वयुक्। प्रयुक्। विद वेदवित्। प्रवित्। ब्रह्मवित्। भिद काष्ठभित्। प्रभित्। छिद रज्जुच्छिद्। प्रच्छिद्। जि शत्रुजित्। प्रजित्। नी सेनानीः। प्रणीः। ग्रामणीः। अग्रणीः। कथम् अत्र णत्वम्? स एषां ग्रामणीः 5-2-78 इति निपातनात्, नयतेः पूर्वपदात् सज्ञायाम् अगः 8-4-3 इति णत्वम्। राज राट्। विराट्। सम्राट्। मो राजि समः क्वौ 8-2-35) इति मत्वम्। अन्येभ्यो ऽपि दृश्यते (*3,2.178), क्विप् च (*3,2.76 इति सामान्येन वक्ष्यति, तस्य एव अयं प्रपञ्चः।
TBD.
–
786 सत्सूद्विष। सद्, सू, द्विष,द्रुह, दुह, युज, विद, भिद, छिद, जि , नी, राज् एषां द्वन्द्वात्पञ्चम्यर्थे षष्ठी। `अनुपसर्गे' इत्यस्य निवृत्त्यैव सिद्धे `उपसर्गेऽपी'ति वचनमन्यत्र सुब्ग्रहणे उपसर्गग्रहणं नेति ज्ञापनार्थम्। तेन `वदः सुपि क्यप् चे' ति विधिरुपसर्गे न भवतीति भाष्ये स्पष्टम्. द्युसदिति। दिवि सीदतीति विग्रहः। `सात्पदाद्यो'रिति न षत्वम्। `पूर्वपदा'दिति षत्वं तु न भवति, तस्य च्छान्दसत्वात्।`आदितेया दिविषदः' इत्यत्र सुषामादित्वात्वमित्याहुः। उपनिषदिति। `सदिरप्रते'रिति षत्वम्। इत्यादीति। काष्ठभित्, रज्जुच्छित्। शत्रुजित्। अत्र `ह्यस्वस्य पिती'ति तुक्। सेनानीः। विराट्। अंशभागीति। णित्त्वादुपधावृद्धिः।
652 सत्सूद्विष। षद्लृ विशरणादौ। `सू' इति द्विषा साहचर्यात्सूतेरादादिकस्य ग्रहणं न तु सुवतिसूयत्योः। युजिर् योगे, युज समाधौ, द्वयोरपि ग्रहणम्। विद ज्ञाने, विद विचारणे, विद सत्तायां, –त्रयाणामपि ग्रहणम्। विद्लृ लाभे इत्यस्य तु न ग्रहणम्, विदेत्यकारस्य विवक्षितत्वात्। द्युसदिति `पूर्वपदा'दिति षत्वं तु न भवति, छन्दसीत्यनुवृत्तेः। तथा च माघः–`मनस्सु येन द्युसदां न्यधीयते' ति। `आदितेया द्विषदः' इत्यत्र तु सुषामादित्वात्षत्वमिति माधवादयः। उपनिषदित्यत्र तु `सदिरप्रते' रिति षः। अग्रग्रामाभ्यामिति। `स एषां ग्रामणी'रिति निर्देशेन ज्ञापितपपदादपि णत्वं, तेनाऽग्रणीरित्यपि सिद्धमित्याहुः।
TBD.