Table of Contents

<<3-2-59 —- 3-2-61>>

3-2-60 त्यदादिषु दृशो ऽनालोचने कञ् च

प्रथमावृत्तिः

TBD.

काशिका

त्यदादिषु उपपदेषु दृशेर् धातोरनालोचने ऽर्थे वर्तमानात् कञ् प्रत्ययो भवति, चकारात् क्विन् च। त्यादृशः, त्यादृक्। तादृशः, तादृक्। यादृशः, यादृक्। कञो ञकारो विशेषणार्थः, ठक् ठञ् कञिति। अनालोचने इति किम्? तं पश्यति तद्दर्शः। तादृगादयो हि रूढिशब्दप्रकाराः, न एव अत्र दर्शनक्रिया विद्यते। समानान्ययोश्चेति वक्तव्यम्। सदृशः, सदृक्। अन्यादृशः, अन्यादृक्। दृशेः क्षश्च वक्तव्यः। तादृक्षः। यादृक्षः। अन्यादृक्षः। कीदृक्षः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

349 त्यदादिषूपपदेष्वज्ञानार्थाद्दृशेः कञ् स्यात्. चात् क्विन्.. ,

बालमनोरमा

अथ शान्ताः। तादृक्शब्दं व्युत्पादयितुमाह–त्यदादिषु। चकारात् `स्पृशोऽनुदके क्विन्' इत्यतः `क्विन्' इत्यनुकृष्यते। आलोचनमिह ज्ञानसामान्यं विवक्षितं, तदाह– त्यदादिष्वित्यादि। अनालोचने किम् ?। तं पश्यति तद्दर्शः। कर्मण्यण्। कञि तु कित्त्वाद्गुणो न स्यात्। तद् शब्दे उपपदे क्विनि उपपदसमासे सुब्लुकि तद्-दृश् इति स्थिते।

तत्त्वबोधिनी

381 त्यदादिषु। कञन्तस्य तूदाहरणं `तादृशो' `यादृश'इत्यादि, तच्चाऽत्र नोक्तं, हलन्तेष्वनुपयोगात्। अनालोचने किम्?। तं पश्यतीति तद्दर्शः। कर्मण्यण्। तादृशादयस्तु रूढशब्दत्वादसताप्यवयवार्थेन व्युत्पाद्यान्ते। अतएवाऽज्ञानार्थाद्दृशेरिति सङ्गच्ते। भाष्ये तु कर्मकर्तरि व्युत्पत्तिर्दर्शिता- -`तभिवेमं पश्यन्ति जनाः, स इवायं पश्यति'। ज्ञानविषयो भवतीत्यर्थात्। अज्ञानार्थादिति तु सङ्गच्छते, तत्र दृशेज्र्ञानविषयत्वापत्तिमात्रवृत्तित्वेऽपि विषयीकरणाऽवृत्तित्वात्।

Satishji's सूत्र-सूचिः

242) त्यदादिषु दृशोऽनालोचने कञ्च 3-2-60

वृत्ति: त्यदादिषूपपदेष्वज्ञानार्थाद् दृशेः कञ् स्याच्चात् क्विँन्। When the words त्यद् etc. stand as उपपदम्, the verbal root दृश्, when it does not mean knowledge, takes the कञ् and क्विँन् affixes.

Example under next rule.