TBD.
पूर्वपदस्थान् निमित्तादुत्तरस्य गकारवर्जिताद् नकारस्य णकार आदेशो भवति संज्ञायां विषये। द्रुणसः। वार्घ्रीणसः। खरणसः। शूर्पणखा। संज्ञायाम् इति किम्? चर्मनासिकः। अगः इति किम्? ऋगयनम्। केचिदेतन् नियमार्थं वर्णयन्ति, पूर्वपदात् संज्ञायाम् एव णत्वं न अन्यत्र इति। समासे ऽपि हि समानपदे निमित्तनिमित्तिनोर् भावादस्ति पूर्वेण प्राप्तिः इति स च नियमः पूर्वपदसम्बधादुत्तरपदस्थस्य एव णत्वं निवर्तयति, चर्मनासिकः इति, न तद्धितपूर्वपदस्थस्य, खारपायणः, मातृभोनीणः, कर्णप्रियः इति। अगः इति योगविभागेन णत्वप्रतिषेधः, न नियमप्रतिषेधः इति। अपरे तु पूर्वसूत्रे समानम् एव यन् नित्यं पदं तत् समानपदम् इत्याश्रयन्ति, समानग्रहणात्। तेषाम् अप्राप्तम् एव णत्वम् अनेन निधीयते। समासे हि पूर्वपदोत्तरविभागादसमानपदत्वम् अप्यस्ति इति।
TBD.
1271 पूर्वपदस्थान्निमित्तात्परस्य नस्य णः स्यात् संज्ञायां न तु गकारव्यवधाने. शूर्पणखा. गौरमुखा. संज्ञायां किम्? ताम्रमुखी कन्या..
848 पूर्वपदात्। `रषाभ्या'मित्यनेन लभ्दो रेफः प्रत्येकमन्वेति। तदाह– पूर्वपदस्थान्निमित्तादिति। रेफषकारात्मकादित्यर्थः। `अग' इति फञ्चम्यन्तम्। गकारभिन्नात्परस्येत्यर्थः। गकारात्परस्य नेति यावत्। तदाह–नतु गकारव्यवधाने इति। अनेन `अट्कुप्वाङ्नुम्व्यवायेऽपि'इत्यनुवृत्तिः। सूचिता। अन्यथा `अग; इत्यस्य वैयथ्र्यं स्यात्। `खण्डपदत्वादप्राप्तौ वचनमिदम्। द्रुरिवेति। वृक्ष इवेत्यर्थः। द्रुणस इति। बहुव्रीहेरच्। नासिकाशब्दस्य नसादेशः। णत्वम्। ऋगयनमिति। `ऋवर्णा'दिति वार्तिकस्याप्यत्रानुवृत्त्या णत्वं प्राप्तं गकारेम व्यवधानान्न भवतीति भावः। अत्र `ऋचामयन'मिति विग्रहप्रदर्शनं चिन्त्यं, वाक्येन संज्ञानवगमात्। नच `रघुनाथ' इत्यादौ संज्ञायां णत्वं शङ्क्यम्, णत्वेन चेत्संज्ञा गम्यत इत्यर्थात्। इह तु कृते णत्वे संज्ञात्वभङ्गापत्तेर्न णत्वम्। अत एव `भृञोऽसंज्ञायां'मिति सूत्रभाष्ये `य एते संज्ञायामिति विधीयन्ते, तेषु नैवं विज्ञायते संज्ञायामभिधेयायामिति। किं `तर्हि ?। प्रत्ययान्तेन चेत्संज्ञा गम्यते' इत्युक्तम्। नसादेशो वेति वक्तव्यमित्यर्थः। प्रकृतत्वादेव सिद्धे नसादेशवचनमच्प्रत्ययानुवृत्तिनिवृत्त्यर्थम्। खुरणा इति। खररूपा नासिका यस्येति विग्रहः। पक्षे `खुरनासिक' इति `खरनासिक' इति च न भवतीत्याह–पक्षेऽजपीष्यते इति। अच्प्रत्ययसहितो नसादेश इत्यर्थः। भाष्ये त्विदं न दृश्यते।
–
TBD.