TBD.
अनुपसर्गे इति वर्तते। वदेर् धातोः सुबन्तोः उपपदे अनुपसर्गे क्यप् प्रत्ययो भवति, चकाराद् यत् च। ब्रह्मोद्यम्, ब्रह्मवद्यम्। सत्योद्यम्, सत्यवद्यम्। सुपि इति किम्? वाद्यम्। अनुपसर्गे इत्येव, प्रवाद्यम्।
TBD.
–
675 वदः सुपि। उत्तरेति। `भुवो भावे' इत्यत्तरसूत्राद्भावे इत्यपकृष्यते इत्यर्थः। भूधातोरकर्मकत्वेन उत्तरसूत्रे भावग्रहणस्य वैयथ्र्यादिति भावः। अनुपसर्गे इति। `वृः सुप्यनुसर्गग्रहण'मिति भाष्यादिति भावः। ब्राहृओद्यमिति। वदेः क्यपि `\त्वचिस्वपी'पि संप्रसारणम्। `वस्तुतस्तु नेह भावग्रहणमपकृष्यते, तत्र भावग्रहणमुत्तरार्थमिति भाष्या'दिति मतमनुसृत्य आह– कर्मणि प्रत्ययावित्येके इति। क्यब्यतावित्यर्थः।
561 वदः। सकर्मकत्वाद्भावे कृत्यप्रत्ययो दुर्लभः, `लः कर्मणि' इति सूत्र इव `तयोरेव' इत्यत्रापि सकर्मकेभ्यः कर्मणि, अकर्मकेभ्य एव भावे इति सिद्धान्तात्। अत आह—-भाव इत्याकृष्यत इति। `भुवो भावे' इत्यत्राऽनुपसर्ग इत्यनुवर्तनात्, निरुपसर्गस्य भवतेरकर्मकत्वात् `तयोरेव कृत्ये' ति भावे कृत्यप्रत्ययसिद्धौ भावग्रहणस्य वैयथ्र्यशङ्कायां भावग्रहणमुत्तरार्थमिति भाष्ये स्थितम्। तद्भाष्यस्वारस्यग्रहिणां मतमाह— कर्मणीति। अनुपसर्ग इति। सुपि किम् ?। `हनस्तोऽचिण्णलोः'घातः। अनुपसर्गे किम् ?। प्रघातः। भावे घञ्।
TBD.