Table of Contents

<<5-2-77 —- 5-2-79>>

5-2-78 स एषां ग्रामणीः

प्रथमावृत्तिः

TBD.

काशिका

स इति प्रथमासमर्थातेषाम् इति षष्ठ्यर्थे कन् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं ग्रामणीश्चेत् स भवति। ग्रामणीः प्रधानः, मुख्यः इत्यर्थः। देवदत्तः ग्रामणीः एषाम् देवदत्तकाः। ब्रह्मदत्तकाः। ग्रामणीः इति किम्? देवदत्तः शत्रुरेषाम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1854 स एषा ग्रामणीः। ग्रामणीविशेषवाचकाच्छब्दात्प्रथमान्तादस्येत्यर्थे कन्स्यादित्यर्थः। देवदत्तो मुख्य एषामिति। एतेन ग्रामणीशब्दो मुख्यपर्याय इति सूचितम्। `ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु' इत्यमरः। त्वत्काः मत्का इति। त्वमहं वा मुख्य एषामिति विग्रहः। `प्रत्ययोत्तरपदयोश्चे'ति त्वमौ श्रृङ्खलमस्य। करभ इति। षष्ठ\उfffद्र्थे सप्तमी। `बन्धन'मिति करणे ल्युट्। अस्य करभस्य श्रृङ्खलं बन्धनमिति विग्रहे बन्धनविशेषणाच्छृङ्खलशब्दात्प्रथमान्तादस्य करभस्येत्यर्थे कन्स्यादित्यर्थः। श्रृङ्खलक इति। श्रृङ्खलेन बद्ध इति यावत्। करभः=बाल उष्ट्रः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.