Table of Contents

<<3-1-94 —- 3-1-96>>

3-1-95 कृत्याः प्रग्ण् वुलः

प्रथमावृत्तिः

TBD.

काशिका

ण्वुल्तृचौ 3-1-133 इति वक्ष्यति। प्रागेतस्माण् ण्वुल्संशब्दनाद् यानित ऊर्ध्वम् अनुक्रमिष्यामः, कृत्यसञ्जकस्ते वेदितव्याः। तत्र एव उदाहरिस्यामः। कृत्यप्रदेशः कृत्यैरधिकाऽर्थवचने 2-1-33), कृत्यानां कर्तरि वा (*2,3.71 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

771 ण्वुल्तृचावित्यतः प्राक् कृत्यसंज्ञाः स्युः..

बालमनोरमा

652 कृत्याः। कृत्यसंज्ञका इत्यर्थः। ततश्च `प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च',`अर्हे कृत्यतृचश्च', `शकि लिङ् चे'त्यादिषु प्रवर्तते। ण्वुलः प्रागिति। `ण्वुल्तृचौ' इत्यतः प्रागित्यर्थः। एतच्च भाष्ये स्पष्टम्।

तत्त्वबोधिनी

543 कृत्याः। अत्र `प्रत्ययः' इत्यादिवत्कृत्य इत्यधिकारेणापीष्टसिद्देर्बहुवचनमनुक्तप्रत्ययसमुच्चायार्थं, तेन केलिमरादयो ज्ञापकसिद्धा इति नोपसह्ख्येया इत्याहुः। ण्वुलः प्रागिति। `ण्वुलतृचौ' इत्यतः प्रागित्यर्थः। `रोगाख्यायां ण्वुल् बहुल'मिति नावधिः, प्रत्यासत्तिन्यायात्। अवदिविशेषे ज्ञापकं तु `अर्हे कृत्यतृचश्चे'त्यत्र कृत्यात्पृथक्तृचो ग्रहणमेव। न चैवं तृचोऽकृत्यत्वेऽपि ण्वुलः कृत्यत्वं दुर्वारं स्यात्, इष्टापत्तौ तु `तयोरेवे'ति भावकर्मणोरेव ण्वुल् प्रग्ण्वुल इतिप्रचिक्षेप।

Satishji's सूत्र-सूचिः

Video

वृत्तिः ण्वुल्तृचावित्यतः प्राक् कृत्यसंज्ञाः स्युः । The affixes prescribed in the section starting from this सूत्रम् up to 3-1-132 चित्याग्निचित्ये च (that is prior to 3-1-133 ण्वुल्तृचौ) get the designation “कृत्य”।

Note: In the काशिका this सूत्रम् is stated as 3-1-95 कृत्याः प्राङ् ण्वुलः।