Table of Contents

<<2-2-30 —- 2-2-32>>

2-2-31 राजदन्ताऽदिषु परम्

प्रथमावृत्तिः

TBD.

काशिका

पूर्वनिपाते प्राप्ते परप्रयोगार्थं वचनम्। राजदन्ताऽदिषु उपसर्जनं परम् प्रयोक्तव्यम्। न केवलम् उपसर्जनस्य, अन्यस्य अपि यथा लक्षणं विहितस्य पूर्वनिपातस्य अयम् अपवादः परनिपातो विधीयते। दन्तानां राजा राजदन्तः। वनस्य अग्रे अग्रेवणम्। निपातनादलुक्। राजदन्तः। अग्रेवनम्। लिप्तवासितम्। नग्नमुषितम्। सिक्तसंमृष्टम्। मृष्टलुञ्चितम्। अवक्लिन्नपक्वम्। अर्पितोप्तम्। उप्तगाढम्। पूर्वकालक्षय् परनिपातः। उलूखलमुसलम्। तण्डुलकिण्वम्। दृषदुपलम्। आरग्वायनबन्धकी। चित्ररथबह्लीकम्। आवन्त्यश्मकम्। शूद्रार्यम्। स्नातकराजानौ। विष्वक्षेनार्जुनौ। अक्षिभ्रुवम्। दारगवम्। शब्दार्थौ। धर्मार्थौ। कामार्थौ। अनियमश्च अत्र इष्यते। अर्थशब्दौ। अर्थधर्मौ। अर्थकामौ। तत् कथम्? वक्तव्यम् इदम्। धर्माऽदिषु उभयम् इति। वैकारमतम्। गजवाजम्। गोपालधानीपूलासम्। पूलासककरण्डम्। स्थूलपूलासम्। उशीरबीजम्। सिञ्जास्थम्। चित्रास्वाती। भार्यापती। जायापती। जम्पती। दम्पती। जायाशब्दस्य जम्भावो दम्भावश्च निपात्यते। पुत्रपती। पुत्रपशू। केशश्मश्रू। श्मश्रुकेशौ। शिरोबीजम्। सर्पिर्मधुनी। मधुसर्पिषी। आद्यन्तौ। अन्तादी। गुणवृद्धी। वृद्धिगुणौ।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

989 एषु पूर्वप्रयोगार्हं परं स्यात्. दन्तानां राजानो राजदन्ताः. (धर्मादिष्वनियमः). अर्थधर्मौ. धर्मार्थावित्यादि..

बालमनोरमा

892 नेष्टोद्गातृशब्दे आद्गुणश्च। राजदन्तादिषु परम्। `उपसर्जनं पूर्व'मित्यनुवर्तते। तदाह–एष्विति। राजदन्तादिष्वित्यर्थः। पूर्वप्रयोगर्हमित्यतः प्राक् `उपसर्जनं'मिति सेषः। राजदन्त इति। दन्तशब्दस्य षषष्टीतत्पुरुषेऽप्रदानतयोपसर्जनत्वेऽपि परनिपातः। इह गणे राजदन्ताग्रेवणादिशब्दास्तत्पुरुषाः,विष्वक्सेनार्जुनादयो द्?वन्द्वश्च पठिता अतो द्वन्द्वप्रकरणे तदुपन्यासः। वि\उfffदाक्सेनार्जुनावित्यत्र `अजाद्यदन्त'मित्यर्जुनशब्दस्य पूर्वनिपाते प्राप्ते परनिपातः। धर्मादिष्वनियम इति। गणसूत्रमिदम्। अन्यतरस्य पूर्वनिपात इत्यर्थः। अर्थधर्माविति। अजाद्यदन्तशब्दस्य पूर्वनिपातनियमे प्राप्ते तदनियमो वक्तव्य इत्यर्थः। निपात्यत इति। पाक्षिको राजदन्तादिगण इत्यर्थः। पत्युरभ्यर्हितत्वेऽपि परनिपातश्च। आकृतिगणोऽयमिति। वृत्तौ तु कृत्स्नोऽयं गणः पठितः।

तत्त्वबोधिनी

769 राजदन्तादिषु। इह द्वन्द्वतत्पुरुषयोः पाठेऽपि `अर्थ धर्मौ'इत्याद्यभिप्रायेणाऽस्य द्वन्द्वेषूपन्यासः।

Satishji's सूत्र-सूचिः

TBD.