TBD.
अनेकम् इति वर्तते। अनेकं सुबन्तं चार्थे वर्तमानम् समस्यते, द्वन्द्वसंज्ञश्च समासो भवति। समुच्चयान्वाचयेतरेतरयोगसमाहाराश्च अर्थाः। तत्र समुच्चयान्वाचययोरसामर्थ्यात् न अस्ति समासः। इतरेतरयोगे समाहारे च समासो विधीयते। प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौ। धवश्च खदिरश्च पलाशश्च धवखदिरपलाशाः। वाक् च त्वक् च वाक्त्वचम्। वाग्दृषदम्। द्वन्द्वप्रदेशाः द्वन्द्वे च 1-1-31 इत्येवम् आदयः।
TBD.
988 अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते स द्वन्द्वः. समुच्चयान्वाचयेत रेतरयोगसमाहाराश्चार्थाः. तत्र [“]ईश्वरं गुरुं च भजस्व\उ2019 इति परस्परनिरपेक्षस्यानेक स्यैकस्मिन्नन्वयः समुच्चयः. [”]भिक्षामट गां चानय\उ2019 इत्यन्यतरस्यानुषङ्गिकत्वेन अन्वयोऽन्वाचयः. अनयोरसामर्थ्यात्समासो न. [“]धवखदिरौ छिन्धि\उ2019 इति मिलितानामन्वय इतरेतरयोगः. [”]संज्ञापरिभाषम्\उ2019 इति समूहः समाहारः..
891 अथ द्वन्द्वसमासनिरूपणम्। चार्थे द्वन्द्वः। `सुबामन्त्रिते' इत्यतः `सुबिति, `अनेकमन्यपदार्थे' इत्यतोऽनेकमिति चानुवर्तते। समास इति विभाषेति चाधिकृतं। तदाह– अनेकमित्यादिना। कश्चार्थ इत्यत आह–समुच्चयेति। `चाऽन्वाचयसमाहारेतरेतरसमुच्चये'इत्यमरः। तत्र समुच्चयं निर्वक्ति–परस्परेति। एकस्मिन्निति। अकस्मिन् क्रियापदे आवृत्ते एकस्य असमस्यमानपदस्य प्रथममन्वयः, तदनन्तरमन्यस्यान्वयो यत्र, तत्र समुच्चयश्चार्थं इत्यर्थः। यथा —`ईस्वरं गुरुं च भजस्वे'ति। तत्र हि चशब्दयोगाद्गुरोरी\उfffदारसापेक्षत्वम्, न त्वी\उfffदारस्य गुरुसापेक्षत्वं, तस्य चकारयोगाऽभावात्। अत एवात्र एक एव चशब्दः प्रयुज्यते। एवंच `ई\उfffदारं च भजस्व' गुरुं च भजस्वे'ति वाक्यद्वयं पर्यवस्यति। अथाऽन्वाचयं लक्षयति–अन्यतरस्येति। यत्राऽन्यतरस्य पदस्यैकस्मिन् क्रियापदे आनुषङ्गिकत्वेन परार्थप्रवृत्तिविशषयत्वेनान्वयः, इतरस्य यतु पदस्यान्यस्मिन् क्रियापदे उद्देश्यत्वेनान्वयश्च तत्रान्वाचयश्चार्थ इत्यर्थः। यथा–`भिक्षामट गां चानये'ति। `अट गतौ'। भिक्षामटनेन प्राप्नुहीत्यर्थः। भिक्षामट, तदा गौः सङ्गता चेत्तामप्यानय, नतु गवानयने ऐदंपर्येण प्रयतितव्यमिति तात्पर्यार्थः। इतरेतरयोगं लक्षयति–मिलितानामिति। परस्परापेक्षितानां समुदितानामेकस्मिन् क्रियापदेऽन्वयो यत्र, तत्रेतरेतरयोगः परस्परसाहर्यं चार्थः प्रत्येतव्य इत्यर्थः। यथा धवश्च खदिरश्च धवखदिराविति। अत्र परस्परसाहित्यसूचनाय चकारद्वयप्रयोगः। अथ समाहारं लक्षयति–समूहः समाहार इति। परस्परसाहित्यमित्यर्थः। यथा संज्ञापरिभाषयोः समूहः संज्ञापरिभाषमिति। तत्रेतरेतरयोगद्वन्द्वे साहित्यं द्रव्यविशेषणम्। यता धवखदिरौ छिन्द्धीति। समिदिताविति गम्यते। समाहारद्वलन्द्वे तु समूहो विशेष्यम्। यता `संज्ञापरिभाष'मिति। तयोः समूह इति गम्यते। `संज्ञापरिभाषमधीयते' इत्यादौ समूहस्य क्रियान्वयस्तु समूहिद्वारा बोध्य इत्यल्म्। तत्रेति। तेषु चार्थेषु समुच्चयेऽन्वाचये च न द्वन्द्वसमास इत्यन्वयः। ई\उfffदारं गुरुं च भजस्वेति। समुच्चयोदाहरणमिदम्। `भिक्षामट गां चानये'त्युदाहरणं चानुपदमेव व्याख्यातम्। असामथ्र्यादिति। `ई\उfffदारं गुरुं चे'त्यत्रोक्तरीत्या ई\उfffदारगुरुशब्दयोः परस्परनिरपेक्षयोरावृत्ते `भजस्वे'ति पदे क्रमेणान्वयात्परस्परमन्वयाऽभावादसामथ्र्यम्। `भिक्षामट गां चानये'त्यत्र तु भिक्षागवोरटने आनयने च क्रमेण परस्परवार्तानभिज्ञयोरेवान्वयात्परस्परान्वयाभावादसामथ्र्यं स्पष्टमेव। ततश्च इतरेतरयोगसमाहायोरेव चार्थयोः परस्परसाहित्यसत्त्वात्समर्थत्वेन द्वन्द्वसमासः। विस्तरस्तु मञ्?जूषायाः द्रष्टव्यः। \र्\नितरेतरयोगमुदाहरति-धवखदिराविति। धवश्च खदिरश्चेति द्वन्द्वः। धवो-वृक्षविशेषः, खदिरः-प्रसिद्धः, तौ समुदिताविति बोधः। समाहारे तूदाहरति–संज्ञेति। संज्ञा च परिभाषा च तयोः समाहार इति विग्रहः। समाहारस्यैकत्वादेकवचनम्। `स नपुंसक'मिति नपुंसकत्वम्। ननु `चार्थे द्वन्द्वः' इत्यत्र `सुप्सुपे'त्यनुवृत्त्यैव धवखदिरावित्यादिसिद्धेरनेकग्रहणानुवृत्तिर्वयर्थेत्यत आह–अनेकोक्तेरिति। होतृपोत्रिति। होता च पोता च नेष्टा च उद्गता चे'ति विग्रहे वहूनामपि द्वन्द्वार्थमनेकग्रहणमिति भावः। `आनङृतो द्वन्द्वे' इति नेष्टृशब्दस्यैव उत्तरपदपरकत्वादानङ्, नतु होतृपोतृशब्दयोरपि, उत्तरपदस्य मध्यमपदव्यवहितत्वेन होतृपोतृशब्दयोरुत्तरपदपरकत्वाऽभावात्। ननु तर्हि `होतापोतानेष्टोद्गातार' इति कथमित्यत आह–द्वयोरिति। होता च पोता चेति द्वयोद्र्वन्द्वः। होतृशब्दस्य आनङ्। ततश्च नेष्टा च उद्गाता चेति द्वयोद्र्वन्द्वः। नेष्टृशब्दस्यानङ्। ततो होतापोतारौ च नेष्टोद्गातारो चेति द्वन्द्वद्वयगर्भो द्वन्द्वः। तत्र नेष्टोद्गातृशब्द उत्तरपदे होतापोतृशब्दस्य आनङित्यर्थः। आनङि ङकार इत्। ङित्त्वादन्तादेशः। अकार उच्चारणार्थः। अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वान्नस्य लोपः।
768 चार्थे द्वन्द्वः। `अनेकमन्यपदार्थे'इत्यतोऽनेकमित्यनुवर्तते, `सुबामन्त्रिते- –'इत्यस्मात्सुबपि।`समासः'इति , `विभाषा'इति चाऽधिकियत एव। तदाह—अनेकं सुबन्तमित्यादि। चार्था इति। चशब्दद्योत्या इत्यर्थः। एकस्मिन्निति। भजनादावित्यर्थः। ई\उfffदारं गुरुंत भजस्वेति। क्रियायां द्रव्ययोः समुच्चयोऽयम्। तथा राज्ञो गजश्चा\उfffदाश्चेति द्रव्ये द्रव्ययोः समुच्चयः। पटः शुक्लो रक्तश्चेति द्रव्ये गुणयोः। रक्तः पटः कुण्डलं चेति गुणे द्रव्ययोरित्यूह्रम्। भिक्षामट गां चानयेति। अत्र ह्रदर्शनाद्गामनानयन्नपि भिक्षामटत्येव। अनटंस्तु भिक्षां न गामानयति। तथा अटन्नपि नाऽन्विष्य गामानयति। अतो भिक्षाऽटनस्यैब प्राधान्यं, ग्वानयनस्य त्वानुषङ्गिकता। असामथ्र्यादिति। एकार्थीभावाऽभावादित्यर्थः। तथाहि बहुव्रीहिघटकपदानां कर्माद्यन्तर्भावेणेव द्वन्द्वघटकपादानां चार्थान्तर्भावेण एकार्थीभाव आवश्यकः, `समर्थः पदविधिः'इति परिभाषितत्वात्, `चार्थे द्वन्द्वः' इत्युक्तेश्च। न चेतरेतरान्वये परस्परनिरपेक्षाणामेकार्थीभावः संभवति येन समुच्चयान्वाचयावेकार्थीभावान्तर्भूतौ स्याताम्। ततश्चेतरयोगे समाहारे च परस्परसाहित्यसत्त्वात्समासो भवति, न तु समुच्चयान्वाचययोः। परं त्वितरेतरयोगे साहित्यं विशेषणं, द्रव्यं तु विशेष्यं, समाहारे तु साहित्यं प्रधानं, द्रव्यं विशेषणमिति विवेक्तव्यम्। ननु `नीलोत्पल'मित्यादौ चशब्दान्तर्भावेण विग्रहदर्शनादेकार्थीभावसत्त्वाच्च द्वन्द्वो दुर्वारः स्यात्। मैवम्। `विशेषणं विशेष्येणे'ति सामानाधिकरण्ये विहिरतया तत्पुरुषसंज्ञया द्वन्द्वसंज्ञाया बाधात्। तस्यास्त्वसामानाधिकरण्ये सावकाशत्वात्। सामानाधिकरण्याऽभावविवक्षायां तु `प्रमाणप्रमेये'त्यदाविव नीलोत्पलादावपि द्वन्द्वे इष्टापत्तिरेव। होतृपोत्रिति। उत्तरपदपरत्वाऽभावादनयोरानङ् न।
TBD.