Table of Contents

<<1-4-59 —- 1-4-61>>

1-4-60 गतिश् च

प्रथमावृत्तिः

TBD.

काशिका

गतिसंज्ञकाश्च प्राऽदयो भवन्ति क्रियायोगे। प्रकृत्य। प्रकृतम्। यत् प्रकरोति। योगविभाग उत्तरार्थः। उत्तरत्र गतिसंज्ञा एव यथा स्यात्। उपसर्गसंज्ञा मा भूत्। ऊरीस्यातित्यत्र उपसर्गप्रादुर्भ्याम् अस्तिर् यच्परः 8-3-87 इति षत्वं प्रसज्येत। चकरः संज्ञासमावेशार्थः। प्रणीतम्। अभिषिक्तम्। गतिरनन्तरः 6-2-49 इति स्वरः, उपसर्गात् 8-4-14) (*8,3.65 इति णत्वषत्वे च भवतः। कारिकाशब्दस्य उपसङ्ख्यानम्। कारिकाकृत्य। कारिकाकृतम्। यत् कारिका करोति। पुनश्चनसौ छन्दसि गतिसंज्ञौ भवत इति वक्तव्यम्। पुनरुत्स्यूतं वासो देयम्। गतिर् गतौ 8-1-70 इति निघातो भवति। चनो हितः। गतिरनन्तरः 6-2-49 इति स्वरः। गतिप्रदेशाः कुगतिप्राऽदय 2-2-18 इत्येवम् आदयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

202 प्रादयः क्रियायोगे गतिसंज्ञाः स्युः. (गतिकारकेतरपूर्वपदस्य यण् नेष्यते). शुद्धधियौ..

सिद्धान्तकौमुदी

<< 1-4-591-1-44 >>
२३॰ गतिश्च ॥ प्रादयः क्रियायोगे उपसर्गसंज्ञा गतिसंज्ञाश्च स्युः॥ प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उद् अभि प्रति परि उप - एते प्रादयः॥

बालमनोरमा

25 उपसर्गाः। गतिश्च। सूत्रद्वयमिदं व्याख्यासौकर्यात्सहोपात्तम्। प्रादय इत्यनुवर्तते। गतिरिति बहुत्वे एकवचनमार्षम्। तदाह–प्रादय इत्यादिना। क्रियायोग इति। क्रियया अन्वये सतीत्तयर्थः। निपात इत्यप्यत्रानुवर्तते, प्रागी\उfffदाकात्तदधिकारात्। ततश्च प्रादयो निपातसंज्ञका एव सन्तो गत्युपसर्गसंज्ञका भवन्ति। आकडारादिति च बाध्यते। गत्युपसर्गसंज्ञायोस्तु गतिश्चेति चकारादेव समावेशः। सिध्यति। ततश्च प्रणेयमित्यादावुपसर्गकार्यम् `उपसर्गादसमासेऽपि' इत्यादि सिध्यति, गतिकारकेत्यादि कार्यं च, निपातस्यानर्थकस्येत्यादि च। अथ प्रादीन् पठति–प्र परेत्यादि। `परा' इत्याकारान्तम्। अयदातौ `उपसर्गस्यायतौ' इति निर्दुरोर्लत्वम् –निलयते दुलयते। निसो दुशश्च `सुसजुषो रुः' इति रुत्वस्यासिद्धत्वान्न लत्वम्। निरयते दुरयते। एतदर्थमेव निस्?दुसोर्निर्दुरोश्च पृथक्पाठः।

तत्त्वबोधिनी

22 गतिश्च। उपसर्गसंज्ञायाः समावेशार्थश्चकारः। अन्यथा `आ कडारा'दिति पर्यायः स्यात्। तत्फलं तु `प्रणेय'-मित्यादौ `उपसर्गादसमासेऽपी'ति णत्वम्, `गतिकारके'ति कृदुत्तरपदप्रकृतिस्वरसिद्धिश्चेति दिक्। निस्निर्दुस्दुरिति। `उपसर्गस्यायतौ' इति निर्दुरोर्लत्वं। निलयते, दुलयते। निसो दुसश्च रुत्वस्याऽसिद्धित्वाल्लत्वाऽभावः,- निरयते, दुरयते॥

Satishji's सूत्र-सूचिः

TBD.