TBD.
नित्यम् इति वर्तते। कुशब्दो ऽव्ययं गृह्यते गत्यादिसाहचर्यात्, न द्रव्यवचनः। कुगतिप्रादयः समर्थेन शब्दान्तरेण सह नित्यं समस्यन्ते, तत्पुरुषश्च समासो भवति। कुः पापार्थे कुपुरुषः। गति उररीकृतम्। यदूरीकरोति। प्रादयः दुर्निन्दायाम् दुष्पुरुषः। स्वती पूजायाम् सुपुरुषः। अतिपुरुषः। आङीषादर्थे आपिङ्गलः। प्रायिकं च एतदुपाधिवचनम्। अन्यत्र अपि हि समासो दृश्यते। कोष्णम्। कदुष्णम्। कवोष्णम्। दुष्कृतम्। अतिस्तुतम्। आबद्धम् इति। प्रदयो गताद्यर्थे प्रथमया। प्रगत आचार्यः प्राचार्यः। प्रान्तेवासी। अत्यादयः क्रान्ताद्यर्थे द्वितीयया। अतिक्रान्तः खट्वाम् अतिखट्वः। अतिमालः। अवादयः क्रुष्टाद्यर्थे तृतीयया। अवक्रुष्टः कोकिलया अवकोकिलः। पर्यादयो ग्लानाद्यर्थे चतुर्थ्या। परिग्लानो ऽध्ययनाय पर्यध्ययनः। अलं कुमार्यै अलंकुमारिः। निरादयः क्रान्ताद्यर्थे पञ्चम्या। निष्क्रान्तः कौशाम्ब्याः निष्कौशाम्बिः। निर्वाराणसिः। इवेन सह समासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्। वाससी इव। वस्त्रे इव। प्रादिप्रसङ्गे कर्मप्रवचनीयानां प्रतिषेधो वक्तव्यः। वृक्षं प्रति विद्युत्। साधुर्देवचत्तो मातरं प्रति।
TBD.
952 एते समर्थेन नित्यं समस्यन्ते. कुत्सितः पुरुषः कुपुरुषः..
750 कुगतिप्रादयः। समस्यन्त इति। स तत्पुरुष इत्यपिज्ञेयम्। कुत्सितः पुरुष इति। नित्यसमासत्वादस्वपदविग्रहः। कुत्सितार्थकस्य `कु' इत्यव्ययस्यैवात्र ग्रहणं, न तु पृथ्वी पर्यायस्य, गत्वादिसाहचर्यात्। गतिश्चेत्यनुवर्तमान इति। क्रियायोग इति चेति बोध्यम्।
664 कुगति। `कु'शब्दोऽत्राव्ययं गृह्रते, न तु पृथिवीवाचको, गत्यादिसाहचर्यात्।
TBD.