Table of Contents

<<6-2-48 —- 6-2-50>>

6-2-49 गतिरनन्तरः

प्रथमावृत्तिः

TBD.

काशिका

क्ते कर्मणि इति वर्तते। कर्मवाचिनि क्तान्ते उत्तरपदे गतिरनन्तरः पूर्वपदं प्रकृतिस्वरं भवति। प्रकृतः। प्रहृतः। अनन्तरः इति किम्? अभ्युद्धृतः। समुद्धृतः। समुदाहृतः। व्यवहितस्य गतेरयं स्वरो न भवति। अनन्तरे पुनरिष्यते। कारकपूर्वस्य तु सति शिष्टत्वात् थाथादिस्वर एव भवति दूरादागतः इति। अनन्तरग्रहणसामर्थ्यादेव कृद्ग्रहणे गतिकारकपूर्वस्य अपि इत्येतन् न अश्रीयते। कर्मणि इत्येव, प्रकृतः कटं देवदत्तः। थाथादिस्वरापवादो योगः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.